Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1036
________________ स्वोपज्ञवृत्तिसहितम् [८३१] . याहक्ताहकोहगीदृशां दादेहः ।।४।४०२। अपभ्रंशे याहगादीनां दादेरवयवस्य डित एह इत्यादेशो भवति ॥ महं भणिअउ बलिराय तुहं केहउ मग्गण एहु॥ — जेहु तेहु नवि होइ वढ सहं नारायणु एहु ।। ४०२ ॥ अतां डइसः । ८।४। ४०३ । अपभ्रंशे याहगादीनामदन्तानां याहशताहशकीदृशेदृशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसो । तहसो । कइसो । अइसो ॥ ४०३ ॥ यत्र-तत्रयोस्त्रस्य डिदेत्यत्तु । ८।४। ४०४ । अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्थु अत्तु इत्येतो डितो भवतः॥ .. जह सो घडदि प्रयावदी केत्थु पि लेप्पिणु सिक्खु। जेत्थु वि तेत्थु वि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु ठिदो ।। ४०४ ॥ एत्थु कुत्रात्रे । ८।४।४०५। . अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्यु इत्यादेशो भवति ॥ - केत्थु वि लेपिणु सिक्खु । जेत्थु वि तेत्थु वि एत्यु जगि ॥ ४०५॥ यावत्तावतोर्वादेर्म उं महि। ८ । ४।४०६ । अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म ७ महिं इत्येते त्रय आदेशा भवन्ति ॥

Loading...

Page Navigation
1 ... 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054