________________
स्वोपज्ञवृत्तिसहितम् [८३१] . याहक्ताहकोहगीदृशां दादेहः ।।४।४०२।
अपभ्रंशे याहगादीनां दादेरवयवस्य डित एह इत्यादेशो भवति ॥
महं भणिअउ बलिराय तुहं केहउ मग्गण एहु॥ — जेहु तेहु नवि होइ वढ सहं नारायणु एहु ।। ४०२ ॥
अतां डइसः । ८।४। ४०३ । अपभ्रंशे याहगादीनामदन्तानां याहशताहशकीदृशेदृशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसो । तहसो । कइसो । अइसो ॥ ४०३ ॥ यत्र-तत्रयोस्त्रस्य डिदेत्यत्तु । ८।४। ४०४ ।
अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्थु अत्तु इत्येतो डितो भवतः॥ .. जह सो घडदि प्रयावदी केत्थु पि लेप्पिणु सिक्खु। जेत्थु वि तेत्थु वि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु ठिदो ।। ४०४ ॥
एत्थु कुत्रात्रे । ८।४।४०५। . अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्यु इत्यादेशो भवति ॥ - केत्थु वि लेपिणु सिक्खु । जेत्थु वि तेत्थु वि एत्यु जगि ॥ ४०५॥
यावत्तावतोर्वादेर्म उं महि। ८ । ४।४०६ ।
अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म ७ महिं इत्येते त्रय आदेशा भवन्ति ॥