________________
स्वोपज्ञवृत्तिसहितम् [८०९] न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ।।४।३२४॥
पैशाच्यां 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' (८-१-१७७ ) इत्यारभ्य 'षट्-शभी-शाव-सुधा-सप्तपर्णेप्वदुश्छेः' (८-१-२६५) इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो॥ एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ।। ३२४ ॥
[अथ चूलिका पैशाचिक भाषा] चूलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ
।८।४ । ३२५। चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने आद्यद्वितीयो यथासंख्यौ भवतः ॥ नगरम् । आद्यद्वितीयौ नकरं ॥ मार्गणः । मक्कनो ॥ गिरि-तटम् । किरि--तटं ॥ मेघः । मेखो ॥ व्याघ्रः॥ वक्खो॥धर्मः । खम्मो॥राजा। राचा ॥ जर्जरम् चच्चरं ॥ जीमूतः । चीमूतो॥ निर्झरः । निच्छरो॥झर्झरः। छच्छरो॥ तडागम् । तटाकं॥ मण्डलम् मण्टलम् ॥ डमरुकः । टमरुको ॥ गाढम् । काठं ॥ षण्डः । सण्ठो ॥ ढक्का । ठका ॥ मदनः । मतनो॥ कन्दर्पः। कन्तप्पो ॥ दामोदरः। तामोतरो॥ मधुरम् । मथुरं ।। बान्धवः । पन्थवो ॥ धूली । थूली ॥ बालकः। पालको। रभसः। रफसो॥ रम्भा । रम्फा । भगवती । फकवती॥ नियोजितम् । नियोचित ॥ क्वचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा । दाढा इत्यस्य स्थाने ताठा ॥३२५॥
रस्य लो वा । ८।४ । ३२६ । चलिकापैशाचिके रस्य स्थाने लो वा भवति ॥