________________
[ ८१० ]
प्राकृतव्याकरणम्
पनमथ पनय-पकुपित - गोली चलनग्ग- लग्ग-पति-बिम्बं । तससु नख-तप्पनेसुं एकातस-तनु-थलं लुद्दं ॥ नच्चन्तस्स य लीला- पातुक्खेवेन कम्पिता वसुधा । उच्छल्लन्ति समुद्दा सइला निपतन्ति तं हलं नमथ ॥ ३२६ ॥
नादि - युज्योरन्येषाम् | ८ | ४ | ३२७ |
चूलिका पैशाचिकेsपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोर्युजिधातौ च आयद्वितीयौ न भवतः ॥ गतिः । गती ॥ धर्मः । घम्मो ॥ जीमूतः । जीमूतो ॥ झर्झरः । झच्छेरो ॥ डमरुकः । डमरुको ॥ ढका । ढक्का ॥ दामोदरः दामोतरो || बालकः । बालको । भगवती । भकवती ॥ नियोजितम् । नियोजितं ॥ ३२७॥ शेषं प्राग्वत् । ८ | ४ | ३२८ |
चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तन पैशाचिकवद् भवति ॥ नकरं । मक्कनो । अनयोर्नो णत्वं न भवति ॥ णस्य च नत्वं स्यात् । एवमन्यदपि ॥ ३२८ ॥
[ अथ अपभ्रंश भाषा ]
स्वराणां स्वराः प्रायोपभ्रंशे । ८ । ४ । ३२९ /
अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ॥ कच्चु | काच्च ॥ वेण । वीण ॥ बाह । बाहा ॥ पट्टि । पिट्ठि | पुहि ॥ तणु । तिणु । तृणु ॥ सुकिदु । सुकिओ । सुकृदु ॥ किन्नओ । किलिन्नओ || लिह । लीह । लेह ॥ गउरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि कचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति ॥ ३२९ ॥
★