Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1020
________________ स्वोपज्ञवृचिसहितम् [८१५] जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्महु निअय-सरु खर- पत्थरि तिक्खेइ || अत्र स्यम्शसां लोपः ॥ ३४४ ॥ षष्ठ्याः । ८ । ४ । ३४५ । अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति ॥ संगर-सएहिं जु वणिअह देक्खु अम्हारा कन्तु । अहमत्तहं चत्तङ्कुसहं गय कुम्भई दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ ३४५ ॥ आमन्त्र्ये जसो होः । ८ । ४ । ३४६ । अपभ्रंशे आमन्त्र्येर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति । लोपापवादः ॥ तरुणहो तरुणिहो मुणिउं मई करहु म अप्पहो घाउ ॥ ३४६ ॥ भिस्सुपोहिं । ८ । ४ । ३४७ । अपभ्रंशे भिस्सुपोः स्थाने र्हि इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ।। सुप् । भाईरहि जिव भार मग्गेहिं तिहिं वि पयट्टइ ॥ ३४७ ॥ स्त्रियां जस-शसोरुदोत् | ८ | ४ | ३४८ | अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः । लोपापवादौ ॥ जसः । अंगुलिउ जज्जरियाओ नहेण ॥ शसः । सुन्दर - सव्वङ्गाउ वि लासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम् ॥ ३४८ ॥ ट ए । ८ । ४ । ३४९ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥

Loading...

Page Navigation
1 ... 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054