Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 1011
________________ [८०६] प्राकृतव्याकरणम् तामोतरो । पतेसो । वतनकं। होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरवाधनार्थम् । तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥ ३०७ ॥ लोळः । ८।४ । ३०८ । पैशाच्या लकारस्य ळकारो भवति ॥ सीळं । कुळं। . जळं । सळिळं । कमळं ।। ३०८ ॥ श-षोः सः । ८।४ । ३०९ । पैशाच्यां शषोः सो भवति । श । सोभति। सोभनं। ससी । सक्को। सङ्को ॥ष। विसमो। किसानो। 'न कगचजादिषदशम्यन्तसूत्रोक्तम्' (८-४-३२४ ) इत्यस्य .. बाधकस्य बाधनार्थोऽयं योगः ॥ ३०९ ॥ हृदये यस्य पः । ८ । ४ | ३१० ॥ - पैशाच्यां हृदयशब्दे यस्य पो भवति । हितपकं । किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ ३१० ॥ टोस्तुर्वा । ८ । ४।३११ ।' पैशाच्या टोः स्थाने तुर्वा भवति । कुतुम्बकं । कुटुम्बकं ॥ ३११ ॥ कत्वस्तनः। ८।४ । ३१२ । पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति॥ गन्तून । रन्तून । हसितून । पठितून । कधितून ॥३१२॥ ध्दून-स्थूनौ ष्ट्वः। ८।४ । ३१३ । पैशाच्यां ष्टवा इत्यस्य स्थाने दून त्थून इत्यादेशो. भवतः । पूर्वस्यापवादः । नदून । नत्थून । तदून । त. स्थून ॥ ३१३ ॥

Loading...

Page Navigation
1 ... 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054