Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 8
________________ श्रीपाल चरित्रम्. ॥२॥ SACREARSA देवायमनयोर्योगो भाग्ययोगेन संभवेत् ॥ ४५ ॥ पित्राथ मदना पृष्टा वरार्थ सा तु लज्जया। जिनवाक्यवशोद्भूतविवेका नाह किञ्चन ।। ४६ ॥ पुनः पृष्टा नरेन्द्रेण विहस्यैवं जगाद सा । तात ! किं पृच्छसीदं मां लज्जाकारि विवेक्यपि ॥४७॥ येनैवं कुलबालानां नोचितं हि वरार्थनं । यस्मै दत्ते पिता तं तु वृणुते कुलबालिका ॥४८॥ निमित्तमात्रं हि वरप्रदाने पितरावपि । पूर्वबद्धो हि सम्बन्धो यस्माजन्तुषु जायते ।। ४९ ।। यद्येन यादृशं कर्मोपार्जितं स्याच्छुभाशुभम् । तत्तेन तादृशं सर्व भोक्तव्यं निश्चयादपि ॥ ५० ॥ कन्या पुण्याधिका या तु दत्ता हीनकुलेऽपि सा । सुखिता पुण्यहीना तु सुकुलेऽपि हि दुःखिता ॥५१॥ तत्तात ! ज्ञाततत्त्वस्य गर्वोऽयं ते न युज्यते । मत्प्रसादाप्रसादाभ्यां यज्जनः सुखदुःखभाक् ॥ ५२ ॥ य एव पुण्यवांस्तस्य त्वमप्याशु प्रसीदसि । पुण्यहीनस्तु यस्तस्य न प्रसीदसि जातुचित् ।।५३।। इति तद्वचसा दूनो भूपः कोपकरालहक् । प्राह रे! मत्प्रसादेन वस्त्रालङ्कारणादिकम् ।।५४॥ दधाना भव्यभोज्यानि भुञ्जानापि निरन्तरम् । यदेवं वक्षि तेन त्वं स्वकर्मफलमाप्नुहि ॥ ५५ ॥युग्मं।। अथाह पर्षल्लोकोऽपि मुग्धेयं नावगच्छति । त्वमेव कल्पवृक्षोऽसि तुष्टो रुष्टो यमोपमः॥५६॥ मदनोवाच धिग् लक्ष्मीलवलाभकृतेऽप्यमी । जानन्तोऽपि नृपस्याग्रे कुर्वतेऽलीकभाषणम् ॥५७॥ किमथो बहुनोक्तेन तुभ्यं यस्तात! रोचते । वरः स मेऽस्तु चेत्पुण्यं निर्गुणोऽपि गुणी ततः ।।५८ ॥ यदिवा पुण्यहीनाहं सुन्दरोऽपि वरस्ततः । असुन्दरो ध्रुवं भावी तात! मत्कर्मदोषतः ॥ ५९॥ ततः प्रकुपितं ज्ञात्वा मन्त्री विज्ञप्तवान्नृपं । स्वामिन् ! समस्ति ते राजपाटिकासमयोऽधुना ॥ ६० ॥ प्रज्वलन्निव रोषेण घृतसिक्त इवानलः । ससैन्योऽथ नृपो राजपाटिकार्थ विनिर्गतः॥६१ ॥ पुरादहिरथो राजा निर्गच्छन् कुष्ठिपेटकं । दृष्ट्वा पप्रच्छ मन्त्रीशं सोऽप्युवाच यथातथम् ॥६२॥ देवात्र नगरे सप्तशतसंख्याः किलासिनः । 55555ॐॐ

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36