Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 19
________________ त्वदायत्तं राज्यं प्राणाः श्रियोऽपि मे । तथापि यासौ मदनसेना नाम्ना ममाङ्गजा ॥२३२॥ प्रसौनां स्वयं (स्वीय) पाणिग्रहणेन कृतार्थय । तन्निबंधात्कुमारोऽपि सद्यः परिणिनाय ताम् ॥२३३।। महाकालोऽपि भूपालः स्वजामात्रे ततो ददौ । गजाश्वरत्नकोशाढ्यं स्वर्णादि करमोचने ॥ २३४ ॥ नवनाटकं वस्त्रालंकाररत्नादिभिर्भूतम् । महायानं चतुःषष्टिकूपस्तंभयुतं तथा ॥२३५॥ कुमारेन्द्रोऽपि सामग्र्यां प्रगुणायां ततोऽचलत् । रत्नद्वीपं च सम्प्राप्य तस्थौ वारिनिधेस्तटे ।। २३६ ॥ पश्यनाट्यविधिं यावदासीनोऽस्ति कुमारराट् । तावत्तत्रागतः कोऽपि पुरुषो वररूपभाक् ॥ २३७ ।। विसृज्य नाटकं पृष्टः कुमारेन्द्रेण सोऽञ्जसा । कस्त्वं ? कुतः समेतोऽसि ? वदाश्चर्य च किंचन ।। २३८ । सोऽप्याह रत्नद्वीपेऽत्र रत्नसानुनगोत्तमे। सद्रत्नसंचयापुर्यां नृपो. ऽस्ति कनकध्वजः ॥ २३९ ॥ चतुर्णां तस्य पुत्राणामुपर्येका सुताभवत् । नाम्ना मदनमञ्जूषा जिनधर्मैकनिश्चया ।। २४०॥ नृपोऽन्यदा जिनगृहे निजपूर्वजकारिते । श्रीयुगादिजिनं नन्तुं परिवारयुतोऽप्यगात् ॥ २४१ ॥ विरचय्य महापूजां जिनस्य नृपपुत्र्यपि । सानन्दा वन्दते देवान् जिनध्यानपरायणा ।। २४२ ॥ नृपोऽपि तत्कृतां पूजां वीक्ष्य विस्मितमानसः । दध्यौ जिनेन्द्रपूजायां कीदृगस्या हि कौशलम् ॥ २४३ ।। यथावदनुरूपोऽस्या वरः कश्चन संभवेत् । तदा चिन्तासमुद्रस्य प्राप्नुयां पारमध्यहम् ।। २४४ ॥ इति चिन्तयतो राज्ञः कुमारी गर्भगेहतः । यावनिर्याति तावत्तकपाटयुगलं तथा ॥ २४५ ॥ अमिलद्वलयुक्तेनाप्युद्धाट्यते न वै यथा । कुमारी स्वकृतां पूजामपश्यन्ती रुरोद च ॥ २४६ ॥ नृपोऽपि दध्यौ दोषोऽयं ममैव यजिनालये । वरचिन्ताकृते शून्यमनाः क्षणमहोऽभवम् ।। २४७॥ ध्यात्वेति शासनसुरीप्रसादनविधौ नृपः। उपवासत्रयं चक्रे धृपोत्क्षेपपुरस्सम् ।। २४८ ॥ तृतीयस्मिन्नेव दिने चिन्ताचान्ते नृपे निशि । सहसा दिव्यवाण्येवं प्रादुरासी जिनौकसि ॥२४९॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36