Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
वनिते मम । कुलं पृच्छ क्षमानाथ ! यदि ते संशयोऽरत्ययं ॥ ३३८ ॥ पप्रच्छ धवलं राजा त्वद्याने वनितायुगम् । किमस्ति सोऽपि विच्छायस्तत्क्षणान्यग्मुखोऽभवत् ॥ ३३९ ॥ नृपादिष्टैनरैस्ते द्वे आनिन्ये तत्क्षणादपि । अप्येते निजभर्तारं वीक्ष्य स्वान्ते जहर्षतुः॥३४०॥ अथ पृष्टा नरेन्द्रेण विद्याधरसुता जगौ । कुमारचरितं सर्व जगदाश्चर्यकारकम् ॥३४१॥ राजा प्रोवाच तन्नूनं ममैव भगिनीसुतः। सकुटुम्बोऽपि मातङ्गो राज्ञा रुष्टेन ताडितः ॥३४२॥ सोऽप्याह सर्वमप्येतत्सार्थवाहेन कारितम् । अस्माभिर्धनलोभान्धस्तत्प्रभो ! क्षम्यतामिदम् ॥३४३॥ रुष्टो नृपः श्रेष्ठिनं तं वधाय समुपादिशत् । कुमारोऽमृमुचत्तं च सन्तः सर्वत्र सकृपाः ।। ३४४॥ मातगाधिपतां पृष्टः राज्ञा नैमित्तिकोऽवदत् । मातङ्गा हस्तिनस्तेषामधिपोऽयं भविष्यति ॥३४५।। ततो विसृष्टः सत्कृत्य नैमित्तिकशिरोमणिः । जामातरं च जामेयं श्रीपालं बह्वमन्यत ॥ ३४६ ॥ कुमारोऽप्येष धवलं नीत्वा निजनिकेतने । स्वगेहचन्द्रशालायां स्थापयामास मानदः ॥ ३४७ ॥ तत्र सुप्तोऽन्यदा रात्रौ स तद्धातं विचिन्तयन् । आरुह्य सप्तमी भूमिं यावद्घातार्थमुद्यतः ॥ ३४८ ॥ तावत्तदुत्थपापेन पातितः प्राप पापभाक् । विहाय सप्तमी भूमि सप्तमी नरकावनिम् ॥३४९॥ लोकोऽपि तं तथावस्थं प्रातर्वीक्ष्य मिथोऽवदत् । नूनमत्युग्रपापानां फलमत्रैव दृश्यते ॥ ३५० ॥ यञ्चिन्त्यते परस्मिन् हि तत्स्वस्यैवाधिगच्छति । कुमारे चिन्तितो द्रोहः श्रेष्ठिन्येव यथाभवत् ।। ३५१ ॥ तच्चरित्रं कुमारोऽपि ध्यायन् शोकात्सगद्गदः । तत्प्रेतकृत्यं कृत्वाथ ददौ तस्मै जलाञ्जलिम् ।।३५२॥ धवलस्य च त्रयो येऽभूवन् सद्बुद्धिदायकाः। सर्वश्रीणां कुमारेण तेऽधिकारे नियोजिताः॥ ३५३ ॥ कुमारोऽथान्यदा राजपाटिका) विनिर्गतः । सार्थवाहं पुरः कश्चिद् दृष्ट्वा पप्रच्छ चेति तम् ॥ ३५४ ॥ कुतस्त्वमागतः ? कुत्र गमिष्यसि ? च सार्थप ! नानादेशभ्रमात्प्राप्तमाश्चयं ब्रूहि किंचन

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36