Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकदा चन्द्रो गौरी च तत्रागतमभिनन्दमुनि नन्तुं जग्मतुः । तावुप. दिश्यानन्तर तयोः भवकथामश्रावयन्मुनिः । सैव गौरी सप्तभवान् भ्रान्धात्र सुलोचनारूपेग जज्ञे । गान्धार्याश्च यौ पुत्रौ चन्द्र श्रोधरनामानौ अस्मिन् भवे विजय-वज्रदाढनामानौ संजातौ । पूर्वस्नेहवशादेव वज्रदाढः सुलोचनां जड़े । एतदर्थ तौ सांप्रत युद्धं कुरुत इति श्रुत्वाऽहं गान्धारी युवयोः समीपमुपस्थिताऽस्मि । इति वाती मातुः श्रुत्वा सल जो वज्रदाढो विरक्तोऽभवत् । वज्रदाढः तत्रैव सर्वविरतिमादृत्य कायोत्सर्गेग आत्मसमर्पणं व्यधात् । विजयोऽपि तं क्षमयामास । पश्चाद् वज्रदाढपुत्रान् पितू राज्येऽभिषिच्य मलिनाङ्गीमपि शोल. रत्नेनाधिक शोभितां सुलोचनां नीवा, बनान्तरे प्रतापकन्यां पद्मां विवाह्य स्वपुरं मङ्गलपुरमागमद् विजयचन्द्रः । द्वाभ्यां पत्नीभ्यां सहितो विजयः पितरौ प्राणसीत् । पिताऽपि पुत्रं गाढमालिङ्गय तस्मै प्राज्यं राज्यमदात् ।। नवमसर्गे-अथ विजयचन्द्रः पैतृकं पदमासाद्याधिकं विरेजे । प्रजाश्च सुखेनापालयत् , सुलोचनां पट्टराज्ञीपदेऽस्थापयत् । तया सह रममाणोऽयं बहून् वासरान् निर्जगाम । एकदा निशीथिन्यां तया सह रतिसुख प्राप्नुवन् रतिश्रान्तो निशायामशृणोत्-'पतिष्यामि, पतिष्यामि' इति । प्रभाते संभ्रातोऽयं नृपो मन्त्रीनाहूयापृच्छदस्यार्थम् । सर्वेऽपि मन्त्रिणः स्वबुद्धचनुसृतमर्थं व्यजिज्ञपन् परं न तस्य मनः समादधत् । एकस्तत्र धोरचन्द्रनामको मन्त्री गम्भीरगिराऽचीकथत्यद्भाव्यं तदन्यथा न भवति, तथापि धर्मेण श्रेयो भवत्येव, अतः धर्म्यकार्य भवान् वितनुयात् । नृपस्तत्कार्याणि वैविध्येन कर्तुमारेभे । एकदाऽम्बरादापतन्तं तेजापिण्डं सोऽपश्यत् । तस्मात् पिण्डात् निस्सरन्तौ काञ्चित् काश्चनगौरथुतिं दधानां स्त्रियं वीक्ष्य नपो विसिष्मिये । तस्या अंसयोः हसयुर म For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 199