Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 228
________________ सर्वार्थसिद्धिः . च नीचैर्गोत्रस्य ॥ २५ ॥ तथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा । गुणोद्भावनाभिप्रायः प्रशंसा । यथासंख्यमभिसम्बन्धः- परनिन्दा , आत्मप्रशंसेति ॥ प्रतिबन्धकहेतुसन्निधाने सति अनुद्भूतवृत्तिता अनाविर्भाव उच्छादनम् । प्रतिबन्धकाभावेन प्रकाशवृत्तिता उद्भावनम् ॥ अत्रापि च यथाक्रममभिसम्बन्धः- सद्गुणोच्छादनमसद्गुणोद्भावनमिति ॥ तान्येतानि नीचे!त्रस्यास्रवकारणानि वेदितव्यानि ॥ . अथोच्चैर्गोत्रस्य क आस्रवविधिरत्रोच्यते- तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २६ ॥ .. तदित्यनेन . प्रत्यासत्तेनींचैर्गोत्रस्यास्रवः प्रतिनिर्दिश्यते ॥ अनेन प्रकारेण वृत्तिविपर्ययः ॥ तस्य विपर्ययस्तद्विपर्ययः ॥ कः पुनरसौ विपर्ययः । आत्मनिन्दा, परप्रशंसा , सद्गुणोद्धावनमसद्गुणोच्छादनं च ॥ गुणोत्कृष्टेषु विनयेनावनतिर्नीचैर्वृत्तिः । विज्ञानादिमिरुत्कृष्टस्यापि सतस्तत्कृतमदविरहोऽनहङ्कारताऽनुत्सेकः । तान्येतान्युत्तरस्योच्चैर्गोत्रस्यास्रवकारणानि भवन्ति ॥ अथ गोत्रानन्तरमुद्दिष्टस्यान्तरायस्य क आस्रव इत्युच्यते ॥ विघ्नकरणमन्तरायस्य ॥ २७ ॥ दानादीन्युक्तानि दानलाभभोगोपभोगवीर्याणि चेत्यत्र । तेषां विहननं विघ्नः । विघ्नस्य करणं विघ्नकरणमन्तरायस्यास्रवविधिर्वेदितव्यः ॥ अत्र चोद्यते-- तत्पदोषनिह्नवादयो ज्ञानदर्शनावरणादीनां प्रतिनियता आस्रवहेतवो वर्णिताः; किं ते प्रतिनियतज्ञा. नावरणाद्यास्रवहेतव एव उताविशेषेणेति । यदि प्रतिनियतज्ञानावरणाद्यास्रवहेतव एव , आगमविरोधः प्रसज्यते। आगमे हि

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310