Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 284
________________ २५४ सर्वार्थसिद्धिः अर्थनिर्देश ः ॥ तेन प्रमत्तादीनां संयतानां ग्रहणं ॥ तेषु हि अक्षाणकषायदोषत्वान्सर्वे सम्भवन्ति ॥ कस्मिन् पुनश्चारित्रे सर्वेषां सम्भव : ? । सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसँयमेष्वन्यतमे सर्वेषां सम्भवः॥ आह गृहीतमेतत्परिषहाणां स्थानविशेषावधारणं, इदं तु न विद्मः कस्याः प्रकृतेः कः कार्य इत्यत्रोच्यते. ॥ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तं-ज्ञानावरणे सत्यज्ञानपरिषह उपपद्यते, प्रज्ञापरिषहः पुनस्तदपाये भवतीति कथं ज्ञानावरणे स्यादित्यत्रोच्यते-क्षायोपशमिकी प्रज्ञा अन्यस्मिन् ज्ञानावरणे सति मदं जनयति । न सकलावरणक्षये इति ज्ञानावरणे सतीत्युपपद्यते ।। पुनरपरयोः परिषहयोः प्रकृतिविशेषनिर्देशार्थमाह॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ __ यथासंख्यममिसम्बन्धः । दर्शनमहे मदर्शनपरिषहः लाभान्तराये अलाभपरिषह इति ॥ माह यद्याचे मोहनीयभेदे एकः परिषहः, अथ द्वीतीयस्मिन् कति भवन्तीत्यत्रोच्यते ॥ चरित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः॥ १५॥ पुंवेदोदयादिनिमित्तत्वान्नाग्न्यादिपरिषहाणां मोहोदयनिमित्तत्व प्रतिपद्यामहे । निषद्यापरिषहस्य कथम् ? तत्रापि प्राणिपीडाप १ अक्षीणाशयत्वादित्यप्यन्यः पाठः ॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310