Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 281
________________ नवमोऽध्यायः २५१ दिविकाररोगस्य यगपदनेकशतसंख्याव्याधिप्रकोपे सत्यपि तद्वशवर्तितां विजहतोजल्लौषधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिस्पृहत्वात्तत्प्रतिकारानपेक्षिणो रोगपरिषहसहनमवगन्तव्यम् १६ तृणग्रहणमुपलक्षणं कस्यचिद्यथनदुःखकारणस्य । तेन शुष्कतृणपरुषशर्कराकण्टकनिशितमृत्तिकाशूलादिव्यथनकृतपादवेदना. प्राप्तौ सत्यां तत्राप्रणिहितचेतसश्चर्याशय्यानिषद्यासु प्राणिपीडापरिहोरे नित्यमप्रमत्तचेतसस्तृणादिस्पर्शबाधापरिषहविजयो वेदितव्यः१७ ___ अप्कायिकजन्तुपीडापरिहारायामरणादस्नानव्रतधारिणः पटु. रविकिरणप्रतापजनितप्रस्वेदात्तपवनानीतपांसुनिचयस्य सिध्मकच्छदबूदार्णकण्डूयायामुत्पन्नायामपि कण्डूयनविमर्दनसङ्घट्टनविवर्जितमूर्तेः स्वगतमलोपचयपरमलापचययोरसंकल्पितमनसः संज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपङ्कजालनिराकरणाय नित्यमुद्यतमतेमलपीडासहनमाख्यायते केशलुञ्चासंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तम् ॥ १८ ॥ सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः कारणमामन्त्रणं वा, तत्रानादरोऽपि क्रियते ! चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिर्णयज्ञस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसम्भ्रमासनप्रदानादीनि मे न कश्चित्करोति! मिथ्यादृष्टय एवातीवभक्तिमन्तः किञ्चिदजानन्तमपि सर्वज्ञसम्मावनया सम्मान्य स्वसमयप्रभावनं कुर्वति! व्यन्तरादयः पुरा अत्युग्रतपसां प्रत्यग्रपूजां निवर्तयन्तीति मिथ्या श्रुतिर्यदि न स्यादिदानी कस्मान्मादृशां न कुर्वन्तीति दुष्प्रणिधानविरहितचित्तस्य सत्कारपुरस्कारपरिषहविजयः प्रतिज्ञायते ॥ १९ ॥ १ ममाङ्गे मलं वर्तते, अस्य भिक्षोरङ्गे कीदृशं नैर्मल्यं वर्तते इति॥

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310