Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 272
________________ २४२ सर्वार्थसिद्धिः दिषु बह्वपि कर्तव्यमित्यनुज्ञायते, धर्मोपबृंहणार्थ ॥ समितिषु वर्तमानस्य प्राणीन्द्रियपरिहारस्सँयमः ॥ कर्मक्षयार्थ तप्यत इति तपः। तदुत्तरत्र वक्ष्यमाणद्वादशविकल्पमवसेयम् ॥ सँयतस्य योग्यं ज्ञानादिदानं त्यागः ॥ उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । नास्ति किंचनास्याकिंचनः तस्य भावः कर्म वा आकिंचन्यम् ॥ अनुभूताङ्गनामस्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद्ब्रह्मचर्य परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो वा गुरुकुलावासो ब्रह्मचर्यम् ।। दृष्टप्रयोजनपरिवर्जनार्थमुत्तमविशेषणम् ॥ तान्येव भाव्यमानानि धर्मव्यपदेशभाञ्जि स्वगुणप्रतिपक्षदोषसद्भावभावनाप्रणिहितानि संवरकारणानि भवन्ति ।। .. आह क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तं, तत्र कस्मात्क्षमादीनयमवलम्बते नान्यथा प्रवर्तत इत्युच्यते । यस्मात्तप्तायःपिण्डवत्क्षमादिपरिणतेनात्महितैषिणा कर्तव्याः ॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तन मनुप्रेक्षाः ॥ ७॥ - इमानि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि समुदायरूपाणि जलबुबुदवदनवस्थितस्वभावानि गर्भादिप्ववस्थाविशेषेषु सदोपलभ्यमानसंयोगविपर्ययाणि, मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयो. गस्वभावादन्यदिति चिन्तनमनित्यतानुप्रेक्षा ॥ एवं यस्य चिन्त १ प्राणव्यपरोपणषडिन्द्रियविषयपरिहरण यमः ।..........

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310