Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 268
________________ २३८ सर्वार्थसिद्धिः दानविच्छेदो द्रव्यसंवरः ॥ इदं विचार्यते- कस्मिन् गुणस्थाने कस्य संवर इति ॥ उच्यते । मिथ्यादर्शनकर्मोदयवशीकृत आत्मा मिथ्यादृष्टिः । तत्र मिथ्यादर्शनप्राधान्येन यत्कर्म आस्रवति तन्निरोधाच्छेषे सासादनसम्यग्दृष्ट्यादौ तत्संवरो भवति ॥ किंपुनस्तमिथ्यात्वं नपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानासम्प्राप्तसृपाटिकासंहनननरकगतिप्रायोग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकषोडशप्रकृतिलक्षणम् ॥ असंयमस्त्रिविधः । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् । तत्पत्ययस्य कर्मणस्तदभावे संवरोऽवसेयः ॥ तद्यथा- निद्रानिद्राप्रचलाप्रचलास्त्यानगृध्यनन्तानुबन्धिकोधमानमायालोभस्त्रीवेदतिर्यगायुस्तिर्यग्गतिचतुःसंस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानुपूर्योद्योताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञिकानां पञ्चविंशतिप्रकृतीनामनन्तानुबन्धिकषायोदयकृतासंयमप्रधानास्रवाणामेकेन्द्रियादयः सासादनसम्यग्दृष्ट्यन्ता बन्धकाः। तदभावे तासामुत्तरत्र संवरः ॥ अप्रत्याख्यानावरणकोधमानमायालोभमनुष्यायुर्मनुष्यगत्यौदारिकशरीरतदङ्गोपाङ्गवज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूय॑नाम्नां दशानां प्रकृतीनामप्रत्याख्यानकषायोदयकृतासंयमहेतुकानामेकेन्द्रियादयोऽसंयतसम्यन्दृष्ट्यन्ता बन्धकाः। तदभावादूर्ध्व तासां संवरः ॥ सम्यमिथ्यात्वगुणेनायुर्न बध्यते । प्रत्याख्यानावरणक्रोधमानमायालोमानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयकारणासंयमास्रवाणामेकेन्द्रियप्रभृतयः संयतासंयतावसाना बन्धकाः ।। तदभावादुपरिष्टात्तासां संवरः ॥ प्रमादोपनीतस्य तदभावे निरोधः ॥ प्रमादेनापनीतस्य कमर्णः प्रमत्तसंयतादूर्ध्वं तदभावान्निरोधः प्रत्येतव्यः । किं पुनस्तदसद्वद्यारतिशोकास्थिराशुभायशःकीर्तिविकल्पं ॥ देवायुबन्धारम्भस्य प्रमाद एव हेतुरप्रमादोऽपि तत्प्रत्या

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310