Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 34
________________ सप्तपदार्थी विशेषास्तु यावन्नित्यद्रव्यवृत्तित्वादनन्ता एव ।।७।। 'तु' शब्दः पुनरर्थः । विशेषयन्ति स्वाश्रयमिति विशेषाः । तेऽनन्ताः-न विद्यतेऽन्तः पर्यवसानं गणनया' येषां ते तथा । आनन्त्ये हेतुमाह-यावन्ति यावत्सङ्ख्याकानि नित्यद्रव्याणि तेषु समवायलक्षणा वृत्तिर्येषां ते तथा । तेषु तत्त्वं नाम धर्मः । तस्मात्प्रतिनित्यद्रव्यमेकैको विशेषो वर्तते । नित्यद्रव्याणां परमाणूनां गगन-काल दिगा-ऽऽत्म-मनसां च सर्वेषां मीलने आनन्त्यात् तद्गतानां विशेषाणां प्रत्येकं भिन्नानामानन्त्यम् । ते तु योगिनामेव विषयाः । प्रयोजनं चैषां व्यावृत्तिप्रत्ययः । यथा अनित्यद्रव्येषु विलक्षणाकार गुणक्रियादिभिः 'अयमस्मादन्यः' इति व्यावृत्तिरनुभूयते, तथा परमाण्वादिष्वाकारादीनां तुल्यत्वान्न तत्कृतः परस्परं भेदावगमः। तेन यैस्तद्व्यतिरिक्तैः प्रतिद्रव्यं व्यावृत्तिप्रत्ययो जन्यते ते विशेषाः । ननु विशेषेषु विशेषा वर्तन्ते, वा न ? वर्तन्ते इति चेत्; ते एव विशेषान्तराणि वा ? आये आत्माश्रयः। द्वितीयकल्पे तु स्पष्टैवाऽनवस्था । न चेत; तर्हि यथा तेषु विशेषेषु कल्पनां विनापि व्यावृत्तिप्रत्ययस्तथा नित्यद्रव्येष्वेवं सम्भविष्यतीति किं तत्कल्पितेन . ? इति चेत; न, तद् भस्मप्रलेपप्रायम्, द्रव्याणामेतत्स्वरूपत्वात्। यथाहि, अप्रकाशात्मा घटादिः प्रकाशेन प्रदीपादिना प्रकाश्यते, न पुनः प्रकाशस्वभावरूपः प्रदीपः प्रदीपान्तरेण, तथा अविशेषस्वभावेषु द्रव्येषु विशेषकृतो व्यावृत्तिप्रत्ययः, विशेषात्मसु विशेषेषु च स्वत एव, न पुनस्तद्गतविशेषान्तरकृत इति ।।७।। समवायं निरूपयति समवायस्त्वेक एव ।।८।। अयुतसिद्धानामाधाराधेयभूतनाम् ‘इह' प्रत्ययहेतुर्यः : सम्बन्धः स समवायः । अस्य सत्त्वे च प्रमाणम् ‘इह तन्तुषु पटः' 'इह पटे रूपम्' इत्यादिर्य ‘इह' प्रत्ययः स सम्बन्धनिमित्तको निर्बाधेहेतिप्रत्ययत्वात, 'इह पात्रे घृतम्' इतिप्रत्ययवत् । न चायं संयोगः, तस्य परस्परपरिहारेण पृथगवस्थातुं योग्येष्वेव सम्भवात् । अतो योऽयं सम्बन्धः [स] समवायः । स चैक एव । अत्र प्रमाणम्-समवायः एक एव, भावत्वे सति द्रव्यगुणादिसाधारणधर्मत्वात्, सत्तासामान्यवत् । ननु समवाय एको धर्मरूप: प्रतिपदार्थ सामस्त्येन, एकदेशेन वा वर्तते ? एकदेशेन चेत; सांशतापत्तिः। सामस्त्येन चेत; तर्हि सामस्त्येनैव एकस्मिन् वर्तनेन परिसमाप्तत्वान्न पुनः पदार्थान्तरे वृत्तिर्युक्ता । यथैकस्मिन् कुण्डे सामस्त्येन वर्तमानं बदरं नान्यत्र वर्त्तते । तस्मादेकः समवायः द्रव्यगुणकर्मसामान्यविशेषेषु वर्तते इति न सारमिति चेत् । १. गुणनया अ. १ पा. टि. । २. भिन्नाकार अ. १ पा. टि. । ३. विशेषस्वरूपेषु अ. १ पा. टि. । १. तावेवाऽयुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोरेकमपराश्रितमेवाऽवतिष्ठते अ. १ पा. टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122