Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तपदार्थी
३१
तदाभासाः असिद्ध-विरुद्धा-ऽनैकान्तिका-ऽनध्यवसित-कालात्ययापदिष्टप्रकरणसमाः ।।७।। 'असिद्धः' स्वरूपासिद्धो यथा रूपाणि सर्वाणि नित्यानि श्रावणत्वाद् इत्यादि । अथवा सिद्धो निश्चितः, न सिद्धोऽसिद्धः सन्दिग्धासिद्ध इत्यर्थः ।
विरुध्यते साध्येन सह विरोधनुभवतीति ‘विरुद्धः', यथानित्याः परमाणवो मूर्तत्वादित्यादि । .
एकान्ते भवः ऐकान्तिकः साध्यसाधकः पक्ष-सपक्षयोरेव वर्तमानः । न ऐकान्तिकोऽनैकान्तिकः पक्ष-सपक्ष-विपक्षे वर्तमान इत्यर्थः । यथाऽमूर्तः शब्दः प्रमेयत्वादित्यादि ।
न अध्यवसितः पक्षादन्यत्र साध्यसहचरितोऽप्रतीतः पक्ष एव वर्तमान इत्यर्थः । यथा अनित्यः शब्दः शब्दत्वादित्यादिवत् ।
कालात्ययापदिष्टः प्रत्यक्षादिप्रमाणविरुद्धः यथा अग्निरनुष्णः कृतकत्वात् जलवदित्यादि ।
प्रकरणसमः साध्यमपि साधयति तद्विपरीतमपि साधयति । यथा-अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् सपक्षवदिति । एवं नित्यः शब्दः पक्ष-सपक्षयोरन्यतरत्वादिति । अथवा सत्प्रतिपक्षोऽपि प्रकरणसम एवोच्यते, यथा शब्दो द्रव्यं भवितुमर्हति साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वाद् घटवत; शब्दो गुणः, कर्मान्यत्वे सति जातिमात्राश्रयत्वात् रूपवत् । केचिद् अस्य विरुद्धाव्यभिचारी इति सझान्तरमाहुः ।।७० ।।
ननु तर्क इति प्रमान्तरं वर्त्तते तत्किमिति पृथङ् नोक्तम् ? स्वप्नोऽपि ज्ञानविशेषोऽस्ति स कमिति पृथग् नोक्त इत्याशङ्याह
तर्क-स्वप्नौ संशय-विपर्ययावेव ।।७१।। तर्को विचारः बाह्यालीप्रदेशे पुरुषेणानेन भवितव्यमित्यादि संशये एवान्तर्भवति, अनवधारणात्मकत्वात् । स्वप्नश्च विपर्ययो मिथ्याज्ञानत्वाद् इति तद्ग्रहणेनैव गृहीताविति ।।७१ ।।
सविकल्पक-निर्विकल्पकौ ज्ञानविशेषौ वर्तते । कथं पृथग् नोक्तौ इत्याशङ्याह
सविकल्पक-निर्विकल्पकयोस्तु प्रमायामप्रमायां चान्तर्भावः ।।७२ ।। विशेषेण कल्प्यते' वस्तु परिच्छिद्यतेऽनेनेति विकल्पः । विकल्पेन सह वर्त्तते इति ‘सविकल्पकं' सज्ञासज्ञिसम्बन्धोल्लेखेन वस्तुपरिज्ञानम्; यथा घटोऽयं शुक्ल इत्यादि । निर्गतं विकल्पं सज्ञादिपरिज्ञानं यस्मात् तत् 'निर्विकल्पकम्', यथा प्रथमाक्षसन्निपातजम, गच्छतस्तृणस्पर्शादिज्ञानं वा । एतयोः क्वचित्प्रमायामन्तर्भावः, यथा विद्यमानं घटादिवस्तु नामवर्णाकारादिपरिच्छेदेन सह परिच्छिद्यते, तत् सविकल्पकं प्रमायामन्तर्भवति, विद्यमानस्य वस्तुनः सम्यक्तया ग्रहणात् । तथा नामादिपरिज्ञानरहितं विद्यमानतृणादीनां स्पर्शे जातेऽपरकार्यरुद्धमनस्कस्य गच्छतः पुरुषस्य किञ्चिन्मे' १. कल्पते अ. १ । २. विद्यमानं अ. १ । ३. ज्ञाने अ. १ । १. किञ्चिन्मलति अ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122