Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 87
________________ सप्तपदार्थी कर्मासमवायिकारणः संयोगः कर्मजः ।।२०६।। कर्म असमवायिकारणं यस्य स' काऽसमवायिकारणः, ईदृशो यः संयोगः स कर्मजः संयोगः । कर्मज इत्युक्ते संयोगजसंयोगेऽतिप्रसक्तिः तन्निरासार्थं काऽसमवायिकारणः । तथोक्ते विभागे वेगे चातिव्याप्तिः, तन्निरासार्थं संयोगः ।।२०६।। संयोगजसंयोगस्य लक्षणमाह संयोगाऽसमवायिकारणः संयोगः संयोगजः ।।२०७।। संयोग एवाऽसमवायिकारणं यस्य सः संयोगजसंयोगः । कर्मजसंयोगव्युदासार्थं संयोगाऽसमवायिकारण इति । विभागादिनिरासार्थ' संयोग इति ।।२०७।। विभागभेदौ लक्षयति कांसमवायिकारणो विभागः कर्मजः ।।२०८।। कर्मैवाऽसमवायिकारणं यस्येति सः । विभागजविभागनिरासार्थं काऽसमवायिकारण इति । संयोगादिनिरासार्थं विभाग इति ।।२०८।। _ विभागाऽसमवायिकारणो विभागो विभागजः ।।२०९।। कर्मजविभागनिरासार्थं विभागाऽसमवायिकारण इति । विभागाऽसमवायिकारणो विभागज इत्युक्ते विभागजशब्देऽतिप्रसक्तिः । तन्निरासार्थं विभाग इति ।।२०९।। परत्वाऽपरत्वभेदौ लक्षयति __ आदित्य परिवर्तनोत्पाद्यं परत्वाऽपरत्वं कालकृतम् । आदित्यसंयोगाऽनुत्पाद्यं परत्वाऽपरत्वं दिकृतम् ।।२१०।। आदित्यपरिवर्तनेनोत्पाद्यं वृद्धे पुरुष परोऽयमिति प्रत्ययनिमित्तं परत्वं कालकृतम् । अल्पीयसि पुरुषे अपरोऽयमिति प्रत्ययनिमित्तमपरत्वं कालकृतम् । आदित्यसंयोगानपेक्षदिशा दूरस्थे वस्तुनि परोऽयमिति-प्रत्ययनिमित्तं परत्वं दिक्कृतम् । आसन्ने वस्तुनि अपरोऽयमिति प्रत्ययनिमित्तमपरत्वं दिक्कृतम् ।।२१०।।. ____ बुद्धर्भेदस्य स्मृतेर्लक्षणमाह१-२, 'स' इति अ. १ आदर्शपुस्तके भ्रष्टम् । ३. कारणम् अ. १ । ४. 'पटादीति पाठान्तरम्' इति अ. १ पुस्तके टिप्पणम् । मितभाषिण्यां संयोगाऽसमवायिकारणः संयोग इत्युक्ते पटादावतिव्याप्तिः तस्यापि तन्त्वादि संयोगासमवायिकारणजन्यत्वात्, अतः संयोग इति (क. पुस्तके मि. भा पृ. ५८. पं. १५) इति व्याख्यादर्शनात् क्वचिज्जिनवर्धन्यामपि सम्भवेदयं पाठः । ५. आदित्यसंयोगोत्पाद्ये परत्वापरत्वे कालकृते । आदित्यसंयोगानुत्पाद्ये परत्वापरत्वे दिक्कृते क. नि. । ३. 'अपरत्वं' इति अ. १ पुस्तके भ्रष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122