________________
सप्तपदार्थी
कर्मासमवायिकारणः संयोगः कर्मजः ।।२०६।। कर्म असमवायिकारणं यस्य स' काऽसमवायिकारणः, ईदृशो यः संयोगः स कर्मजः संयोगः । कर्मज इत्युक्ते संयोगजसंयोगेऽतिप्रसक्तिः तन्निरासार्थं काऽसमवायिकारणः । तथोक्ते विभागे वेगे चातिव्याप्तिः, तन्निरासार्थं संयोगः ।।२०६।। संयोगजसंयोगस्य लक्षणमाह
संयोगाऽसमवायिकारणः संयोगः संयोगजः ।।२०७।। संयोग एवाऽसमवायिकारणं यस्य सः संयोगजसंयोगः । कर्मजसंयोगव्युदासार्थं संयोगाऽसमवायिकारण इति । विभागादिनिरासार्थ' संयोग इति ।।२०७।। विभागभेदौ लक्षयति
कांसमवायिकारणो विभागः कर्मजः ।।२०८।। कर्मैवाऽसमवायिकारणं यस्येति सः । विभागजविभागनिरासार्थं काऽसमवायिकारण इति । संयोगादिनिरासार्थं विभाग इति ।।२०८।।
_ विभागाऽसमवायिकारणो विभागो विभागजः ।।२०९।। कर्मजविभागनिरासार्थं विभागाऽसमवायिकारण इति । विभागाऽसमवायिकारणो विभागज इत्युक्ते विभागजशब्देऽतिप्रसक्तिः । तन्निरासार्थं विभाग इति ।।२०९।। परत्वाऽपरत्वभेदौ लक्षयति
__ आदित्य परिवर्तनोत्पाद्यं परत्वाऽपरत्वं कालकृतम् ।
आदित्यसंयोगाऽनुत्पाद्यं परत्वाऽपरत्वं दिकृतम् ।।२१०।। आदित्यपरिवर्तनेनोत्पाद्यं वृद्धे पुरुष परोऽयमिति प्रत्ययनिमित्तं परत्वं कालकृतम् । अल्पीयसि पुरुषे अपरोऽयमिति प्रत्ययनिमित्तमपरत्वं कालकृतम् । आदित्यसंयोगानपेक्षदिशा दूरस्थे वस्तुनि परोऽयमिति-प्रत्ययनिमित्तं परत्वं दिक्कृतम् । आसन्ने वस्तुनि अपरोऽयमिति प्रत्ययनिमित्तमपरत्वं दिक्कृतम् ।।२१०।।.
____ बुद्धर्भेदस्य स्मृतेर्लक्षणमाह१-२, 'स' इति अ. १ आदर्शपुस्तके भ्रष्टम् । ३. कारणम् अ. १ । ४. 'पटादीति पाठान्तरम्' इति अ.
१ पुस्तके टिप्पणम् । मितभाषिण्यां संयोगाऽसमवायिकारणः संयोग इत्युक्ते पटादावतिव्याप्तिः तस्यापि तन्त्वादि संयोगासमवायिकारणजन्यत्वात्, अतः संयोग इति (क. पुस्तके मि. भा पृ. ५८. पं. १५) इति व्याख्यादर्शनात् क्वचिज्जिनवर्धन्यामपि सम्भवेदयं पाठः । ५. आदित्यसंयोगोत्पाद्ये परत्वापरत्वे कालकृते । आदित्यसंयोगानुत्पाद्ये परत्वापरत्वे दिक्कृते क. नि. । ३. 'अपरत्वं' इति अ. १ पुस्तके भ्रष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org