________________
सप्तपदार्थी
भावनाऽसाधारणकारणं ज्ञानं स्मृतिः ।।२११ ।। भावना संस्कारविशेषः एवाऽसाधारणं कारणं यस्य एवंविधं यज्ज्ञानं सा स्मृतिः । ज्ञानं स्मृतिरित्युक्ते प्रत्यभिज्ञानेऽतिव्याप्तिः' स्यात्, तन्निरासार्थमसाधारणमिति । ज्ञानपदं स्वरूपपरम् ।।२११।। अनुभवं लक्षयति
अस्मृतिरूपं ज्ञानमनुभवः ।।२१२ ।। स्मृतिव्यतिरिक्तं यज्ज्ञानं स अनुभवः ।।२१२ ।। अनुभवभेदं प्रमामप्रमां च लक्षयति
तत्त्वानुभवः प्रमा ।।२१३।। तत्त्वानुभवः सम्यगनुभवः ।।२१३ ।।
अतत्त्वज्ञानमप्रमा ।।२१४।। अलीकज्ञानमप्रमेति ।।२१४।। अथाप्रमाभेदान् लक्षयति
अनवधारणं ज्ञानं संशयः ।।२१५।। न विद्यते अवधारणं निश्चयात्मकं ज्ञानं यत्र तदनवधारणं ज्ञानं यथा स्थाणुर्वा पुरुषो वेति ।।२१५।।
अवधारणरूपाऽतत्त्वज्ञानं विपर्ययः ।।२१६ ।। अवधारणरूपं निश्चयात्मकं यत् अतत्त्वज्ञानमलीकज्ञानं स विपर्ययः । यथा शुक्तिशकले कलधौताधारोपः ।।२१६।। अथ प्रमाभेदं प्रत्यक्षप्रमां लक्षयति
अज्ञायमानकरणजन्यस्तत्त्वानुभवः प्रत्यक्षप्रमा ।।२१७।। यस्य करणम् असाधारणं कारणं न ज्ञायते प्रत्यक्षेण नोपलभ्यते एवंविधो य: 'तत्त्वानुभवः' सा 'प्रत्यक्षप्रमे'ति । यथा 'घटोऽयं' 'पटोऽयम्' इति ज्ञानम्, तस्य साधारणं कारणं चक्षुरादीन्द्रियं तत्प्रत्य-क्षेण नोपलभ्यते, इन्द्रियाणामतीन्द्रियत्वात् ।।२१७।।
१. तत्ताऽवच्छिन्नं प्रत्यभिज्ञानं यथा स एवायं देवदत्तः अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org