________________
६४
सप्तपदार्थी
शायमानकरणजन्यस्तत्त्वानुभवोऽनुमितिप्रमा ।।२१८।। __ यस्य करणम् असाधारणं कारणं ज्ञायते प्रत्यक्षेणोपलभ्यते सा 'अनुमितिप्रमा' । यथा धूमानुमाने वह्नयनुमितौ धूमो लिङ्गं प्रत्यक्षेणैवोपलभ्यते ।।२१८ ।।
अथ प्रसङ्गायातं प्रमाणं लक्षयति
साधनाश्रययोरन्यतरत्वे सति प्रमायोगव्यवच्छिन्नं प्रमाणम् ।।२१९।।
प्रमया सह योगः सम्बन्धः तेन सह व्यवच्छिन्नं व्याप्तं साधनत्वेन आश्रयत्वेन वा यत् तत् प्रमाणम् । यथा इन्द्रियार्थसन्निकर्षादि: साधनत्वेन प्रमया सह व्याप्तः । यत्रेन्द्रियार्थसन्निकर्षस्तत्र प्रमोत्पत्तिर्भवत्येव इति साधनत्वेन प्रमाव्याप्तः इन्द्रियार्थसन्निकर्षादिः प्रमाणम् । आश्रयत्वेन ईश्वरः प्रमाणम् । सोऽपि प्रमायोगेन सह व्याप्तः । यत्र ईश्वरस्तत्र प्रमायोगो भवत्येव, ईश्वरप्रमाया नित्यत्वात् । प्रमाणमित्युक्ते साकाङ्क्षता, तन्निरासार्थं व्यवच्छिन्नमिति । तथोक्ते व्याप्तिरुभयाश्रिता भवति, अतः केन सहेति साकाङ्क्षता तथैव, तन्निरासार्थं साधनाश्रययोरन्यतरत्वे सतीति । सुखादिकं साधनमपि न भवति, आश्रयोऽपि न भवति, इन्द्रियार्थसन्निकर्षादः साधनत्वात् आत्मनश्चा-श्रयत्वात् ।।२१९।। साधनाश्रययोरन्यतरत्वे सति प्रत्यक्षप्रमायोगव्यवच्छिन्नं प्रत्यक्षप्रमाणम् ।।२२० ।।
प्रत्यक्षप्रमायोगेन सह व्याप्तं प्रत्यक्षप्रमाणम् ।।२२०।। तच्च किमित्याह
तच्च ईश्वरघ्राणरसनचक्षुःस्पर्शनश्रोत्रमनोलक्षणम् ।।२२१ ।। ईश्वरः प्रत्यक्षप्रमया साक्षादेव बोधलक्षणया आश्रयत्वेन व्याप्तः । घ्राणादीन्द्रियं साधनत्वेन व्याप्तम् । यद्यपीन्द्रियार्थसन्निकर्ष एव प्रमाव्याप्तोऽस्ति, इन्द्रिये सत्यपि सुप्तावस्थादौ प्रमाया अनुत्पादात्, तथापि तस्येन्द्रियार्थसन्निकर्षस्याश्रयभूतत्वाद् इन्द्रियमेव प्रमाणत्वेनोक्तम्, आश्रयाऽऽश्रयिणोरभेदोपचारात् ।।२२१ ।। अनुमितिप्रमां लक्षयति
अनुमितिप्रमायोगव्यवच्छिन्नं प्रमाणमनुमानम् ।।२२२।। अनुमितिप्रमा लिङ्गोत्पाद्यसम्यगनुभवस्तेन सह योगः सम्बन्धः साध्यसाधनभावलक्षणः, तेन सह व्यवच्छिन्नं व्याप्तं तदनुमानम् ।।२२२ ।। १. 'साधनाश्रययोरन्यतरत्वे सति' इति क. नि. पुस्तकयोर्नास्ति तत्र च प्रमाऽयोगव्यवच्छिन्नम् इति पाठः । अत्र
च जिनवर्धनीसम्मतः 'प्रमायोगव्यवच्छिन्नम्' इति पाठः । २. अत्र द्वयोरप्यादर्शयो 'साकांक्ष० तन्नि० साकां० तन्नि०' इति च संक्षिप्य लिखितं वर्तते । ३. 'साधनाश्रययोरन्यतरत्वे सति' इति क. नि. पुस्तकयो स्ति । ४. तच्च ईश्वर इति क. नि. पुस्तकाभ्यां गृहीतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org