SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सप्तपदार्थी मनसः प्रत्यात्मनिष्ठत्वादनन्तत्वमुक्तम् । तत्प्रत्यात्मनिष्ठत्वं किं प्रत्यात्मसंयोगः समवायो वा? न तावत् समवायः, अमूर्त्तद्रव्ये द्रव्यान्तरसमवायाऽसम्भवात् । नापि संयोगः, आत्मनां विभुत्वात् विभूनां च सर्वमूर्त्तद्रव्यैः सह संयोगित्वात्, मनसश्च मूर्त्तत्वात् । अतः सर्वात्मनां सर्वैर्मनोभिः सह संयोगित्वात् 'इदं मनः अस्य' इति व्यवस्था न स्यादित्याशङ्क्याह __ प्रत्यात्मसमवेतधर्माधर्मोपगृहीतत्वं प्रत्यात्मनिष्ठत्वम् ।।१९९।। आत्मानमात्मानं प्रति यौ समवेतौ धर्माधम्र्मी ताभ्यामुपगृहीतत्वम् ‘इदं मनोऽस्यैवात्मनः' इति प्रतिनियतीकृतत्वं प्रत्यात्मनिष्ठत्वम् ।।१९९।। अथ रूपाणां सितादयो भेदाः सन्तीति तल्लक्षणमाह सितादीनां सप्तानां सितत्वादिकम् ।।२०० ।। सितादीनां रूपाणां सितत्वादिकं लक्षणं भवति । एतावता सितत्व-सामान्यवत् सितं रूपम्, पीतत्वसामान्यवत् पीतं रूपमित्यादि ।।२०० ।। रसभेदानां लक्षणान्याह मधुरादीनां मधुरत्वादिकम् ।।२०१।। व्याख्या पूर्ववत् ।।२०१॥ गन्धभेदयोर्लक्षणमाह गन्धयोः सुरभित्वाऽसुरमित्वे ।।२०२।। सुरभित्वसामान्यवान् सुरभिर्गन्धः, असुरभित्वसामान्यवान् असुरभिर्गन्धः ।।२०२।। स्पर्शभेदानां लक्षणमाह शीतादीनां शीतत्वादिकम् ।।२०३।। सङ्ख्याभेदानां लक्षणमाह एकत्वादीनामेकत्वादिकम् ।।२०४।। परिमाणभेदानां लक्षणमाह अणुत्वादीनामणुत्वादिकम् ।।२०५।। अथ संयोगभेदलक्षणमाह १. सितत्वादिकं लक्षणम् क. नि. । २. शीतानां अ. १ । ३. एकत्वत्वादिकम् क. । ४. अणुत्वत्वादिकम् क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy