SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सप्तपदा प्रागभावसम्बन्धेति । तथोक्ते क्षणद्वयेऽतिप्रसक्तिः विभागजविभागप्रागभावेन कर्मणा च सह सम्बन्धो भवति क्षणद्वयम्, पूर्वं कर्म, ततः कर्मजः, ततः विभागजविभागः । तन्निरासार्थं विभागानुत्पाद्येति ।।१९२।। तन्मात्रावस्थायि क्षणिकम् ।।१९३।। क्षणमात्रावस्थायि यद्वस्तु भवति तत्क्षणिकम् ।।१९३।। उत्पत्तिस्थितिविनाशलक्षणः कालस्त्रिविध उक्त आसीत् । तत्रोत्पत्तिर्लक्षिता, स्थितिं लक्षयति स्थितिवर्तमानत्वम् ।।१९४ ।। स्थितिलक्षण: कालः क उच्यते ? यद्वस्तूनां वर्तमानत्वम् ।।१९४ ।। वर्तमानत्वं तत्किमित्याशङ्क्याह तच्च प्रागभावप्रध्वंसाभावरहितस्वरूपत्वम् ।।१९५।। प्रागभावो वस्तूनां विनष्टो भवति, प्रध्वंसाभावोऽनुत्पन्नो भवति, वस्तूनां स्वरूपं वर्तते तद्वर्तमानत्वम् ।।१९५।। वर्तमानस्वरूपलक्षणान्तरमाह स्वकार्यप्रागभावसम्बद्धत्वं' वा ।।१९६।। स्वकार्य स्वस्मिन् समवेतं कार्यं तस्य प्रागभावोऽनुत्पत्तिस्तेन सह सम्बद्धत्वं तद्वर्त्तमानत्वम् । अथवा वर्तमानत्वं तदुच्यते यावत् स्वसमवेतं कार्यं द्रव्यान्तरमनुत्पादितं भवति; यथा तन्तवः यावन्नोत्पादयन्ति पटम, उत्पादिते पटे तन्तूनां वर्त्तमानत्वं न स्यात् पटोऽयमित्येवं व्यपदिश्यमानत्वात् ।।१९६।। अथ विनाशं लक्षयति विनाशः प्रध्वंसः ।।१९७।। स्पष्टम् ।।१९७।। आत्मनो भेदद्वयमुक्तम् । तत्र क्षेत्रमं लक्षयति ___ शरीरसम्बन्धेन ज्ञानवत्त्वं क्षेत्रज्ञत्वम् ।।१९८ ।। शरीरसम्बन्धमात्रेण यः आत्मा ज्ञानवान् भवति, व्यापकोऽप्यात्मा यावत्-प्रदेशे शरीरं भवति तत्रैव ज्ञानवान् स्यात् नान्यत्रेति स क्षेत्रज्ञ इति ।।१९८ ।। १. प्राकसम्बद्धस्वभावरहितस्वरूपवत्त्वम् क. नि. । २. सम्बन्धित्वम्' क. नि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy