________________
सप्तपदार्थी
तैजसत्वादिति ब्रूमः । ननु तर्हि सर्वोऽपि वस्तुस्तोमस्तैजस उष्मस्पर्शः कल्प्यतां, परं प्राणिनामदृष्टवशान्न तथाऽनुभूयते इत्युच्यतामिति चेत् । न, एकत्र प्रमाणप्रसिद्धत्वेन कल्पनायां सर्वत्र तत्परिकल्पनेऽतिप्रसङ्गस्याप्रामाणिकत्वादिति ।। १८९ ।।
अथोत्पत्तिस्थितिविनाशलक्षणः कालस्त्रिविध उक्त आसीत्, तत्राद्यामुत्पत्तिं लक्षयतिसकल कारणयौगपद्यमुत्पत्तिः ।। १९० ।।
सकलानि समस्तानि समवाय्यसमवायिनिमित्तलक्षणानि कारणानि तेषां यौगपद्यमेकस्मिन्समये सर्वेषां मेलापकः तदुत्पत्तिरुच्यते । यथा पटस्य समवायिकारणं तन्तवः, असमवायिकारणं तन्तूनां परस्परं संयोगः, निमित्तकारणं च तन्तुवायवेमादि, ईश्वरेच्छा, भोगिनां धर्म्माधर्मौ इत्यादिकम् । एवमेतानि सर्वाण्यपि कारणानि सामस्त्येन यत्र मिलितानि स्युस्तदा पटोत्पत्तिः, एवं घटादेरपि ।।१९० ।।
५९
यौगपद्यमित्युक्तं तत्किमुच्यते इत्याशङ्क्य तल्लक्षयतिअनेकेषामेकक्षणसम्बन्धो यौगपद्यम् ।।१९१ ।।
अनेकेषां बहूनां तन्तूनामेकस्मिन्क्षणे कालविशेषे यः सम्बन्धः परस्परं सान्निध्यं तद्यौगपद्यम् । अथवा एकेन क्षणेन सह यः सम्बन्धः संयोगः तद्यौगपद्यम् । सम्बन्धो यौगपद्यमित्युक्ते समवायोऽपि तत्स्यात्तन्निवृत्त्यर्थं क्षणेति । क्षर्णेन सह सम्बन्धः क्षणसम्बन्धः स चातीतानागतवार्त्तमानिकानां द्रव्याणां सर्वेषामप्यस्ति क्षणस्य कालविशेषत्वात् कालस्यामूर्त्तद्रव्यत्वादमूर्त्तद्रव्यस्य च समस्तैः मूर्त्ते सह संयोगित्वात्; तद्विच्छित्यै एकेति । सम्बन्धः पृथग्भूतैर्बहुभिः क्षणैरस्ति नैकेन । तथोक्तेऽपि एकस्य वस्तुन एकेन क्षणेन सह सम्बन्धो यौगपद्यं स्यात् तन्निवृत्त्यर्थम् अनेकेषामिति । । १९१ ।।
क्षणसम्बन्ध इत्युक्तं तेन स क्षणः किंलक्षण इत्याशङ्क्य तं लक्षयति
विभागानुत्पाद्यविभागप्रागभावसंबन्धकर्मावच्छिन्नः कालः क्षणः ।।१९२।।
विभागेनाऽनुत्पाद्यो विभागो विभागाऽनुत्पाद्यविभागः कर्म्मजविभाग इत्यर्थः । तस्य प्रागभाव - स्तेन सह सम्बन्धो विशेषणविशेष्यभावलक्षणः, कर्म्म च । ताभ्यामवच्छिन्नो विभागीकृतो यावान् कालविशेषः स क्षण इत्यवयवार्थः ।
भावार्थस्त्वयम्–उद्दण्डदण्डायुधाभिघातात् घटशकलेषु कर्मोत्पद्यते, कर्म्मणा विभागो भवति, विभागाच्च विभागज विभागो भवति । अतः कर्म्म जातं भवति, कर्म्मजो विभागोऽनुत्पन्नो भवति । तावान् कालविशेषः क्षण इत्युच्यते । कालः क्षण इत्युक्ते युगादावतिव्याप्तिः । तन्निरासार्थं कर्म्मावच्छिन्न इति । तथोक्ते कर्म्मापि द्वित्रिक्षणेऽवस्थायि भवतीति तत्रातिप्रसक्तिः । तन्निरासार्थं विभाग
१. निमित्तकारणं तुरीवायुवेमादि अ. २ । २. संबद्ध क. । ३. 'नोऽविभा° अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org