________________
सप्तपदार्थी
पार्थिवमात्रेन्धनं तेजो भौमम् ।।१८५।। पार्थिवमेव काष्ठतैलघृतादिकमिन्धनं दाह्यं यस्य तत्पार्थिवमात्रेन्धनम् । तेजोग्रहणं हिमादिनिवृत्त्यर्थम्, यतो हिमसंहतिरपि पार्थिवान्येव' द्रुमपल्लवादीनि प्लोषति । मात्रग्रहणमौदर्यतेजसो निरासार्थम् ।।१८५।।
जलमात्रेन्धनं तेजो दिव्यम् ।।१८६ ।। जलं पानीयमेवेन्धनं दाह्यमुद्दीपकं वा तज्जलमात्रेन्धनम् । तच्च विद्युत्सूरवडवानलादिकं यजलेन प्रज्वलति। अत्र तेजोग्रहणं वृक्षादिनिवृत्त्यर्थं यतस्तदपि जलेनैवोद्दीप्यत इति ।।१८६।।
पार्थिवजलेन्धनं तेज औदर्यम् ।।१८७।। पार्थिवमाहारादि, जलं सलिलं ते द्वे इन्धनं यस्य तत्पार्थिवजलेन्धनम् । जाठरोग्निः२ किलाहारनीराभ्यां विना चिरकालेनात्यन्तं प्रज्वल्य निरिन्धनो विध्यातो भवति । आहारादौ च मन्दं मन्दं प्रक्षिप्ते मन्दं मन्दमुदरस्थः स प्रज्वलति । अत्यन्तप्रचुरतरेणाहारादिकेन युगपत् प्रक्षिप्तेन विध्याप्यते यथा कृशः कृशानुः परममहदेधसां संततप्रक्षेपेण। अत्र तेजोऽभिधानं शरीरादिनिवृत्त्यर्थं तस्याप्याहारनीराभ्यां पोषात् ।।१८७।।।
निरिन्धनं तेज आकरजम् ।।१८८।।* निर्न विद्यते इन्धनं दाह्यं यस्य तन्निरिन्धनम् । तेजोग्रहणं ज्वालादिव्यवच्छेदार्थं निरिन्धनग्रहणं च भौमादितेजसो निरासार्थम् ।।१८८ ।। निरिन्धनस्य तेजसो लोकाऽप्रसिद्धत्वान्निदर्शनमाह
तच्च सुवर्णादि ।।१८९।। आकरजं तेजश्चामीकरादिकमवसेयम् । आदिशब्दाद् यदग्निसंयोगेन द्रवीभवति न चात्यन्तं प्रबलानलेन दह्यमानमपि मनागपि दह्यते तद्रजतप्रभृतिकं धातुविशेषरूपं वस्तु विज्ञेयमिति । तेजस्त्वमस्य प्रागुक्तयुक्तिभिः साधनीयमिति ।
ननु उष्णस्पर्श तेज उक्तम्, तत्तेजसः सामान्यलक्षणं सुवर्णेऽव्यापकं तस्यानुष्णत्वादिति चेत्। न, तत्राप्युष्णस्पर्शाङ्गीकारात् । तस्योष्णत्वे अङ्गुलीयकमङ्गुली ज्वालयेदिति चेत् । न, प्रदीपालोकादौ व्यभिचारात् । यथा बाह्यालोको लोकानां विशिष्टादृष्टवशादनुद्भूतस्पर्शत्वेन नोष्णोऽनुभूयते तथा हाटकमप्यस्पष्टस्पर्श प्राणिनामदृष्टवशादेव तथा प्रतीयते । तस्यौष्ण्यं यजि स्फुटं स्यात्तदा विहितसुकृतातिशयोऽपि को व्यपगतदूषणानि भूषणानि परिदध्यात् । ननु उष्णस्पर्शस्तत्र कुतः प्रतीयते ।
१. पार्थिवानेव अ. १ । २. जाठराग्निः अ. १ । ३. वागतदूषणानि अ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org