SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समपदार्थी स्वसमवेतसुखदुःखयोरन्यतरसाक्षात्कारो भोगः ।।१८१ ।। सुखदुःखयोरन्यतरत् एकं किमपि सुखं दुःखं वा, तस्य मनसा साक्षात्कारः 'यदहं सुख्यस्मि दुःखं मे महदेतत्' इत्यादिप्रकारेण यदुन्नीयते स भोगः । साक्षात्कारो भोग इत्युक्ते घटसाक्षात्कारोऽपि भोग: स्यात्, तन्निरासाय' दुःखसाक्षात्कारः । तथोक्ते सुखसाक्षात्कारेऽव्यापकं लक्षणमेतत्स्यात्, तन्निवृत्त्यर्थं सुखेति । सुखदुःखसाक्षात्कार इत्युक्ते सकलजन्तुसमवेतसुखदुःखसाक्षात्काररूपे योगिप्रत्यक्षे ईश्वरज्ञाने चातिव्याप्तिः, तेषां सर्वज्ञत्वात् । तन्निवृत्त्यर्थमभाणि स्वसमवेतेति । ईश्वरज्ञानं हि परात्मनिष्ठान्येव सुखदुःखानि साक्षात्पश्यति न स्वसमवेतानि, तस्मिन् सुखदुःखयोरभावात् । योगिप्रत्यक्षं च स्वात्मनिष्ठानि पश्यद् भोगोऽन्तर्गतम् । परात्मसमवेतान्यवगच्छन्न भोग इति । स्वसमवेतसुखदुःखसाक्षात्कार इत्युक्तेऽसम्भवि लक्षणं स्यात्, सुखदुःखयोः परस्परविरुद्धयोरेकस्मिन्नात्मनि युगपत्साक्षात्काराऽसम्भवात्, तदुच्छेदायान्यतर इति ।।१८१ ।। अथ द्वितीयं पदं लक्षयति यदवच्छिन्नात्मनि भोगस्तदायतनम् ।।१८२ ।। येनावच्छिन्नो व्याप्तः क्रोडीकृत आत्मा तस्मिन् भोगः सुखदुःखान्यतरसाक्षात्कारलक्षणोऽस्ति तदायतनम्, यत आत्मा जगद्व्यापकोऽपि शरीरावच्छिन्नप्रदेशे एव सुखदुःखानि भुङ्क्ते न सर्वत्र ।।१८२।। शरीरं लक्षितम्, इन्द्रियं लक्षयति "साक्षात्कारज्ञानकारणमिन्द्रियम् ।।१८३ ।। कारणमिन्द्रियमित्युक्ते कुठारादावतिप्रसक्तिस्तद्व्यवच्छेदार्थं ज्ञानपदम् । तथोक्तेऽनुमानेऽतिव्याप्तिः, तन्निवृत्त्यर्थं साक्षात्कारपदम् । एतावता प्रत्यक्षप्रतीत्यसाधारणं कारणं यत्तदिन्द्रियमिति भावः ।।१८३।। विषयं लक्षयति आत्मनो भोगकारणं विषयः ।।१८४ ।। सुगमम् । नवरं शरीरेन्द्रियाभ्यां व्यतिरिक्तमात्मनो यद्भोगमुत्पादयति स विषयः ।। तैजसश्चत्वारः प्रकारा उदिताः आचार्यैस्ताँल्लक्षयति' १. भोगश्च अ. १ अ. २ द्वयोरपि पुस्तकयोः किन्तु 'च' अत्र अनर्थकः । 'क. नि.', पुस्तकयोश्च नास्ति अतोऽत्र न स्थापितः । २. तन्निरस्यायै अ. २ । ३. यदवच्छिन्ने क. नि. । ४. साक्षात्कारि क. नि.। ५. उदितामुदिशयैस्ताँल्लक्षयति अ. २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy