________________
सप्तपदार्थी
इत्याशक्य तं लक्षयति
द्रव्यसमवायिकारणमवयवः ।।१७७।। ___ यत्र समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । द्रव्यस्योक्तलक्षणस्य समवायिकारणं यत् सोऽवयवः; यथा पटस्य द्रव्यस्य समवायि कारणं भवन्ति तन्तवः, पटस्य तन्तुसमवेतत्वेनोत्पादात् । अतस्तेऽवयवाः पटस्य । व्यणुकस्य परमाणू अवयवौ द्वाभ्यामणुभ्यां व्यणुकोत्पत्तेः । त्र्यणुकस्य व्यणुकान्यवयवाः । चतुरणुकस्य त्र्यणुकान्यवयवाः, चतुर्भिस्त्र्यणुकैस्तस्योत्पादाद् । एवं सर्वत्र ।।१७७।। प्रसङ्गायातत्वादन्त्यावयविलक्षणमाह
द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवि ।।१७८ ।। अन्त्यावयवि शरीरं घटादि वा, तत् द्रव्यान्तरस्य स्वसमवेतत्वेन अनारम्भकमनुत्पादकम् । यथा बहुभिस्तन्तुभिर्मिलित्वा एकः पटीयान् पट उत्पाद्यते एवं न शरीरैर्बहुभिरेकं गरीयः शरीरमारभ्यते । तस्मात् द्रव्यानारम्भकं कार्यद्रव्यं भवति सावयवत्वात् । अत: शरीराद्यमन्त्यावयवि द्रव्यम् । अन्त्यावयवीत्युक्ते गगनादावतिव्याप्तिः, कार्यद्रव्यमित्युक्ते व्यणुकादौ व्यभिचारस्तन्निवृत्त्यै अनारम्भकपदम् । तथोक्ते असम्भवि लक्षणं स्यात् कार्यद्रव्यस्यानारम्भकस्य कस्याप्यभावात्, शरीरादीनामपि स्वसमवेतगुणकर्मारम्भकत्वात् । तन्निवृत्त्यर्थं द्रव्येति पदम् । ते गुणकर्मणामारम्भकाः स्युः, परं न द्रव्यस्य । द्रव्यानारम्भकमन्त्यावयवीत्युक्ते सामान्यादौ व्यभिचारस्तदुच्छित्त्यै द्रव्यमिति । तथोक्ते मनआदौ । तन्निरासाय कार्यमिति ।।१७८ ।।
प्रागभाववत् कार्यम् ।।१७९।। प्रागभावो विद्यते यस्य तत्प्रागभाववत् । यद्वस्तु पूर्वमविद्यमानं पश्चाच्च कारणेभ्य उत्पद्यते तत्कार्यमिति भावः ।।१७९।। सा शरीरेन्द्रियविषयरूपेत्युक्तमासीत् । अतस्तानि त्रीणि लक्षयति
भोगायतनमन्त्यावयवि शरीरम् ।।१८० ।। भोगस्य वक्ष्यमाणलक्षणस्यायतनं गृहं स्थानं अन्त्यं पार्यन्तिकमवयवि अन्त्यावयवि यत्तत् शरीरम् । अन्त्यावयवि शरीरमित्युक्ते घटादौ व्यभिचारः, घटादीनामप्यन्त्यावयवित्वात् । तन्निवृत्त्यर्थं भोगायतनमिति । भोगायतनं शरीरमित्युक्ते करचरणशिरोग्रीवादयोपि भोगस्थानं स्युरिति तत्रातिप्रसक्तिः । तन्निवृत्त्यै अन्त्यावयवीति ।।१८० ।।
भोगायतनमित्युक्तं, तर्हि भोगस्तावन्न ज्ञायतेऽस्माभिरित्याशङ्कय तं लक्षयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org