________________
सप्तपदार्थी
सादिरनन्तः प्रध्वंसाभावः ।।१७१।। य उत्पद्यते परं कदाचिन्न विनश्यति स 'प्रध्वंसाभावः' । यथा प्रोत्पाटितप्रचण्डदण्डाभिघाताद् घटादिः प्रध्वंस्यते, तद्विनाशरूप एव दण्डादिभ्यः प्रध्वंसाभाव उत्पद्यते परं कदाचिन्न क्षीयत इति । अत्र 'सादि'पदं व्योमादेया॑वृत्त्यर्थम् । 'अनन्त'पदं घटादेश्चेति ।।
अनादिरनन्तः संसर्गाभावोऽत्यन्ताभावः ।।१७२ ।। यस्यादि: उत्पत्तिरपि न, अन्तो विनाशोऽपि न, तादृशो य: संसर्गस्य सम्बन्धस्याभावः सोऽत्यन्ताभावः। आत्मनि रूपस्य वा शशश्रृङ्गस्य वा । अनादिरत्यन्ताभाव इत्युक्ते प्रागभावेऽपि प्रसक्तिस्तव्यवच्छित्त्यै अनन्तः; तथोक्ते गगनादौ व्यभिचारस्तन्निषेधाय अभावेति । तथोक्ते असम्भवो लक्षणस्य । कथम् ? अभावः किल प्रतियोगिनो भवति । अभावस्य चानाद्यनन्तत्वात् सर्वकालं नास्त्येव, सर्वथाभावे नामापि न स्यात् प्रतियोगिनः । तथा चानुच्चारप्रसङ्गः । अतोऽभावस्याप्यनुच्चार्यत्वं, तस्य प्रतियोग्यधीनत्वादिति । तन्निरासार्थं संसर्गाभाव इति। 'यथा प्रागभावादयो वस्तुनिषेधकास्तथाऽयं न, किन्तु वस्तुनोर्द्रयोः सत्त्वेऽपि सम्बन्धो निषिध्यते । यथा शशश्रृङ्गात्यन्ताभावे शशश्रृङ्गयोर्वियुक्तयोर्विद्यमानत्वेऽपि सम्बन्धाभावस्योच्यमानत्वादिति ।।१७२ ।।
- तादात्म्यनिषेधोऽन्योन्याभावः ।।१७३।। ।
स एवात्मा स्वरूपं यस्य स तदात्मा; तदात्मनो भावस्तादात्म्यम् ऐक्यमित्यर्थः । तस्य यो निषेधः सोऽन्योन्याभावः । यथा गुणो गुणी न । पटो घटो न । घटः पटो नेत्यादि ।।१७३ ।।
एवं सर्वभेदान् लक्षयित्वा प्रभेदान् विवक्षुरादौ पृथिवी नित्या चानित्या चोक्ताऽऽसीत्; तत्किं नित्यत्वं किञ्चानित्यत्वमित्याशङ्क्याह
नित्यत्वं प्रध्वंसविरहः ।।१७४।। यस्य वस्तुनः प्रध्वंसो विनाशो न, तन्नित्यम् ।।१७४ ।।
अनित्यत्वं प्रध्वंसवत्त्वम् ।।१७५।। स्पष्टम् ।।१७५।। सैव परमाणुलक्षणा कार्यलक्षणेत्युक्ताऽऽसीत् । स कः परमाणुरित्याशक्य तं लक्षयति
निरवयवः क्रियावान् परमाणुः ।।१७६ ।। न विद्यतेऽवयवो यस्य स 'निरवयवः' । क्रियावान् चलनगमनागमनादिकारी । 'निरवयव'पदं कार्यद्रव्यनिरासार्थम् । 'क्रियावान्'पदं विष्णुपदादिव्यवच्छेदार्थम् ।।१७६ ।।
ननु निरवयवस्तदा ज्ञायते यदि पूर्वं तावदवयवो ज्ञातः स्याद् । अतः स एव लक्ष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org