________________
५४
सप्तपदार्थी
व्याप्यमानं सामान्यमपरम् ।।१६८।। यत्सामान्यमन्यसामान्येभ्योऽत्यन्तमल्पवृत्तित्वात् स्वयं व्याप्यमेव, न क्वचिद् व्यापकम् । अत्र 'मात्र'शब्दस्य व्यापकत्वनिरासार्थत्वात् । व्याप्यमात्रमपरमित्युक्ते विशेषेष्वतिप्रसक्तिस्तेषामप्येकैकद्रव्यमात्रवृत्तित्वात् सर्वधर्मेभ्योऽल्पवृत्तित्वेन व्याप्यत्वमेव, न क्वचिद् व्यापकत्वम् । अतस्तन्निवृत्त्यर्थं सामान्यमिति । तत्तु घटत्व-धवत्व खदिरत्व-पलाशत्व-शुक्लत्व-मधुरत्वसुरभित्वोष्णत्वादिकम् । तस्मादल्पवृत्ति तदाश्रये सामान्यमन्यन्नास्ति इति' ।।१६८।।
व्याप्यव्यापकरूपं गुणत्व-द्रव्यत्वादि सामान्यं परापरम् ।।१६९।।
यत्सामान्यं सामान्यान्तरापेक्षया व्याप्यं व्यापकं च भवति, तत्किम् ? गुणत्वद्रव्यत्वादि । गुणत्वं हि सत्तासामान्यापेक्षया व्याप्यं भवति ततोऽल्पवृत्तित्वात् तेन सह वा अविनाभूतत्वात् । तथाहि यत्र यत्र गुणत्वं तत्र तत्र सत्ता इत्यविनाभावोऽस्त्येव, यत्र यत्र सत्ता तत्र तत्र गुणत्वमिति नास्ति, द्रव्यादौ व्यभिचारादिति । तथा रूपत्वसामान्यापेक्षया गुणत्वं व्यापकं ततोऽधिकवृत्तित्वाद् वह्निमत्त्ववत् । तथाहि यत्र रूपत्वं तत्र गुणत्वमित्यविनाभावः । परं यत्र यत्र गुणत्वं तत्र तत्र रूपत्वमिति नास्ति, रसादौ व्यभिचारात् । तदेवं व्याप्यं व्यापकं चापेक्षया गुणत्वमिति' भवति । एवं द्रव्यत्वं सत्तापेक्षया व्याप्यम्, पृथिवीत्वापेक्षया व्यापकम् । आदिशब्दात् पृथिवीत्व-जलत्व-भाण्डत्ववृक्षत्व-रूपत्व'-रसत्व-कर्मत्वादयो ज्ञातव्या इति ।
व्याप्यव्यापकरूपं परापरमित्युक्ते समवायित्वादौ व्यभिचारः तस्याप्यस्तित्वापेक्षया व्याप्यरूपत्वात् ततोऽल्पवृत्तित्वात्तेनाविनाभूतत्वाच्च, सत्तासामान्यापेक्षया व्यापकरूपत्वात् ततोऽधिकवृत्तित्वात् । तस्मात्तद्व्यावृत्तये सामान्यमिति । सामान्यं त्रिष्वेव वर्त्तते समवायित्वं च पञ्चाद्यपदार्थवृत्ति इति । अत्र गुणत्व-द्रव्यत्वादीति उदाहरणोद्देशः स्पष्टार्थः ।।१६९।। अभावभेदाँल्लक्षयति
अनादिः सान्तः प्रागभावः ।।१७०।। न विद्यते आदिर्जन्म यस्य स 'अनादिः' उत्पत्तिरहित इत्यर्थः । सह अन्तेन विनाशेन वर्त्तते इति 'सान्तः' अनित्य इत्यर्थः । य उत्पद्यते न, परं विनश्यति स 'प्रागभावः' यथा घटोत्पत्तेः प्राग मृदि घटप्रागभावोऽनन्तकालादस्ति तत्कालविशिष्टस्योत्पित्सुघटस्य तत्रानन्तकालादवर्तनात् । घटोत्पत्तिकाले च तदुत्पादकसामग्रीतः स विनश्यति। 'अनादि'पदं घटादिनिवृत्त्यर्थम् । 'सान्त'पदं गगनादिनिरासार्थम् ।।१७०।।
१. अपरं सामान्यं अ. १ पा. टि. । २. 'इति' नास्ति अ. २ । ३. व्याप्यव्यापकोभयरूपं सामान्यं परापरम्
क. नि. । ४. 'त्वं, भ° अ. २ । ५. रूपत्वासत्व अ. १ । ६. स्वरूपसत्ताऽपेक्षया अ. १ पा. टि. । ७. द्रव्यत्वादीनि अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org