________________
सप्तपदार्थी
अपक्षेपणत्वजातिमदधोदेशसंयोगकारणं कर्मापक्षेपणम् ।।१६३ । ।
सुगमम् ।।१६३।।
आकुश्चनत्वजातिमद्वक्रत्वापादकं काऽऽकुञ्चनम् ।।१६४ ।।
प्रसारणत्वजातिमहजुत्वापादकं कर्म प्रसारणम् ।।१६५।। एतेऽपि सुगमे नवरमत्र कर्मग्रहणं स्थितिस्थापकसंस्कारनिवृत्त्यर्थम् ।।१६४-१६५।।
गमनत्वजातिमदनियतदेशसंयोगकारणं कर्म गमनम् ।।१६६ ।।
अनियताऽनिश्चिता ऊर्ध्वाऽधस्तिर्यगादिवचनैरनियमिता देशादिकप्रदेशास्तैः सह येन कर्मणा मूर्तस्य द्रव्यस्य संयोगो भवति तद् ‘गमनम्' । एतावता पूर्वोक्तेभ्यश्चतुर्थ्यः कर्मभ्यो यानि गमन-भ्रमणस्यन्दन-रेचन-तिर्यक्पतन-नमनोन्नमन-प्रवेशन-निष्क्रमणादीनि भिन्नानि तानि सर्वाण्यपि गमनान्येवेति ।।१६६।। सामान्यभेदानां लक्षणमाह
व्यापकमात्रं सामान्यं परम् ।।१६७।। एकं व्यापकं, एकं च व्याप्यम् । तयोर्मध्ये यदधिकवृत्ति तद् व्यापकम्, यच्चाल्पवृत्ति व्यापकेन सहाविनाभूतं तद् व्याप्यम्, यथा धूमानुमाने वहिर्व्यापकं; धूमो व्याप्यम; यतो यत्र यत्र वह्निस्तत्र तत्र धूम इति नास्ति । अङ्गारावस्थायां वह्निसद्भावे वह्निः सर्वत्राप्यस्त्येव तेन । वह्निरधिकवृत्तित्वाद् व्यापकं धूमश्चाल्पवृत्तित्वाद् व्याप्यम् । उक्तं च ।
"व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च ।
व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते ।।" ततश्चात्र यत्सामान्यपरेषु स्वयं व्यापकमेव भवति न पुनः कस्यापि सामान्यान्तरस्य व्याप्यं स्यात् तत् सत्तालक्षणं परं सामान्यम् । सत्ता हि द्रव्यत्व-गुणत्व-कर्मत्वादिभ्योऽपरसामान्येभ्योऽधिकवृत्तित्वाद् व्यापकरूपैव भवति । परं सामान्यान्तरमपरं तादृशं किमपि नास्ति यत्सत्तातोऽप्यधिकवृत्ति स्यादिति सा व्यापकमात्रं सामान्यम् । सामान्यं परमित्युक्तेऽपरे सामान्येऽतिव्याप्तिस्तन्निवृत्त्यै व्यापकमिति । तथापि परापरसामान्ये व्यभिचारस्तन्निवृत्त्यै मात्रेति पदम्, मात्रशब्दस्य व्याप्यत्वनिरासार्थत्वात् । व्यापकमानं परमित्युक्ते अस्तित्वाभिधेयत्वज्ञेयत्वेषु' व्यभिचारः, तान्यपि सर्वेभ्योऽपरधर्मेभ्योऽधिकवृत्तित्वाद् व्यापकमात्राण्येव भवन्ति । तद्व्यवच्छेदार्थमभाणि सामान्यमिति । तानि तु सामान्यं न भवन्ति, सामान्यस्य पदार्थत्रयमात्रवृत्तिनियमादेतेषां च सप्तस्वपि विशेषेण वर्तनादिति ।।१६७।। १. अस्तित्वं स्वरूपसत्त्वम् अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org