________________
५२
नन्वस्य वाच्यमस्ति, वस्तुस्वरूपस्य धर्म्मशब्दवाच्यत्वाङ्गीकारात् परम् आत्मगुणस्त्वदुक्तो धर्म्मो निषिध्यते इति चेत् । न, सुखस्य मनोवेद्यस्य व्यपोढुमशक्यत्वात् । धर्म्माभावे उत्पद्यते ? स्रक्चन्दनवनिताभ्य इति चेत् । तान्यपि केनोपनीयन्ते ? प्रयत्नेनेति चेत् । तन्न, तुल्यप्रयत्नयोरपि लाभालाभयोर्दृष्टत्वात् । तथा चोक्तम्
“धर्म्माधर्म्मविशेषात् तुल्ये यत्नेऽपि पुरुषयोरुभयोः । एकस्य विभवलाभो हानिः प्रत्यक्षमपरस्य ।। "
सर्वेषां जन्तूना सुखविषय एवाऽभिलाषः स्यात् तथा चोक्तम्“सर्वेऽपि सुखाकाङ्क्षाः सर्वेऽपि दुःखभीरवो जीवाः । सर्वेऽपि मरणभीताः जीवितुमिच्छन्ति सर्वेऽपि ।। "
सप्तपदार्थों
तस्मात्सर्वेऽपि सुखसाधकमेव प्रयत्नं कुतो न कुर्वन्ति, तस्यैवेष्टत्वात् ? परं यो विहितसुकृतः सुगृहीतनामधेयो भवति स सुखसाधकं प्रयत्नं कुर्यात्, तद्विपरीतो दुःखसाधकम् । तस्मात् सुखसाधकप्रयत्नोत्पादकं किञ्चिददृष्टं कारणमभ्युपगन्तव्यम् । स च धर्म्म एवेति तत्सिद्धिः ।। १५९।। अधर्मत्वसामान्यवान् दुःखाऽसाधारणं कारणमधर्मः । । १६० ।।
यदन्यकार्यार्थमङ्गीक्रियते परं तदविवक्षितेऽपि कार्ये उपयोगमागच्छति, तत्तत्र कार्ये साधारणं' कारणम् । यच्च विवक्षितकार्यमेवाङ्गीक्रियते तत्तस्मिन् कार्येऽसाधारणं कारणम् । अधर्मश्च दुःखनिमित्तमेवाङ्गीक्रियते । तथा हि-दुःखं कुतश्चिदसाधारणकारणादुत्पन्नं, कार्यत्वात् पटवत् । तत्र यदसाधारणं कारणं सोऽधर्म्म इति ।। १६० ।।
शब्दत्वजातियोगी" श्रोत्रग्राह्यो गुणः शब्दः । ।१६१ ।।
श्रोत्रेण श्रवणेन्द्रियेण समवायिसम्बन्धेन ग्राह्यो ग्रहणयोग्यो यो गुणः स 'शब्दः ' । श्रोत्रग्राह्यः शब्द इत्युक्ते शब्दत्वेऽतिव्याप्तिः । तन्निवृत्त्यर्थं गुण इति । । लक्षिताः सर्वे गुणाः ।।१६१।।
कर्मणां लक्षणान्याह -
Jain Education International
उत्क्षेपणत्वजातिमदूर्ध्वदेशसंयोगकारणं कर्मोत्क्षेपणम् ।।१६२ ।।
यो यस्मिन् स्थाने स्थितो भवति तस्मादूर्ध्वं देशेन सह येन कर्म्मणा वस्तुनः संयोगो भवति तदुत्क्षेपणम् । संयोगो गुणः स च मूर्ते वस्तुनि दिशि चोभयत्र समवेत उत्पद्यते; अत ऊर्ध्वदेशसंयोगकारणं समवायिकारणत्वेन द्रव्यमपि स्यात् । प्रयत्नादिको गुणोऽपि निमित्तकारणं स्यात् । तन्निवृत्त्यै उवाच कर्मेति । एवमग्रेऽपि कर्म्मशब्दव्यावृत्तिः । । १६२।।
१. प्राणिनां अ. २ । २ तस्मिन् विवक्षितेऽपि अ. २ । ३. साधारणं अ. २ । ४. सामान्ययोगी क. ।
For Private & Personal Use Only
www.jainelibrary.org