________________
सप्तपदार्थी
भावः स्यात् । तेन सलिलनिष्ठो गुणः स्नेहः सङ्ग्रहस्यासाधारणं कारणं भवति । ननु घृतेनाऽपि गोधूमचूर्णादेः पिण्डीभावो भवेत् न च तत्र स्नेहोऽस्तीति, तस्य पार्थिवत्वाद्वैशेषिकैश्च स्नेहस्यपां विशेषगुणत्वेनैवाङ्गीकारात् । अतस्तत्राऽतिव्याप्तिः । तन्निरासार्थमाह 'द्रवत्वशून्यः' इति । घृतं हि यदा द्रवत्वशून्यं तदा न सङ्ग्रहं करोति । यदा तं करोति तदा द्रवत्ववदेव | स्नेहश्च द्रवत्वशून्य एव “गुणा निर्गुणाः" इति वचनादिति ।। १५७ ।।
संस्कारत्वसामान्यवान्' स्वोत्पत्त्यवस्थापादको गुणः संस्कारः । । १५८ ।।
स्वस्य संस्कारस्योत्पत्त्यै याऽवस्था तस्यामापादयति स्वाश्रयं नयति प्रापयतीति 'स्वोत्पत्त्यवस्थापादकः’। वेगः किल कर्म्मवति बाणादावुत्पद्यते । स चोत्पन्नः स्वाश्रयं कर्म्मवन्तमेव करोति, यतो बाणादावाद्यं कर्म्म नोदनाद् भवति । पश्चान्नोदनापेक्षात्कर्मणः सकाशाद्वेग उत्पद्यते । तेन वेगेन बाणादावुत्तरोत्तराणि कर्माणि तावदारभ्यन्ते यावदापतनात् स वेगो विनश्यति । तस्माद्वेगः स्वोत्पत्त्यबस्थापादकः । भावनापि अपूर्वदर्शनादेरात्मनि समारोप्यते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । सा कालान्तरे तादृशवार्त्ता प्रसङ्गादिनोदबुद्धा सती उष्ट्रादिविषयां स्मृतिमुत्पादयन्ती उष्ट्रादिविषयिज्ञानवन्तमेवात्मानमापादयतीति स्वोत्पत्त्यवस्थापादिका । स्थितिस्थापकोऽपि रूपादिसमकालं वस्तूत्पत्तेरनन्तरं द्वितीयक्षणे रुद्धावस्थास्थिते कोदण्ड - दण्ड शाखादावुत्पद्यते । वक्रावस्थावस्थिते वपुच्छिका श्रृङ्गादौ च । ततश्च कोदण्डादयो ज्याकर्षणादिभिर्वक्रीकृता अपि प्रतिबन्धकाभावे स्थितिस्थापकेन गुणेन पुनर्ऋजवः क्रियन्ते, श्वपुच्छिकादयश्च सरलीकृता अपि प्रतिबन्धकाऽभावे पुनस्तेन गुणेन वक्रावस्थायामेवापद्यन्त इति सोऽपि स्वोत्पत्त्यवस्थापादकः । कोदण्डादयोऽपि स्वोत्पत्त्यवस्थापादने हेतवो भवन्ति इति तत्राऽतिप्रसक्तिः । तन्निरासार्थं गुण इति ।। १५८ ।।
धर्मत्वसामान्यवान् सुखाऽसाधारणं कारणं धर्म्मा ।। १५९ ।।
सुखस्यानुकूलवेद्यस्य असाधारणमनन्यसमानतया यत्कारणं' स 'धर्म्मः' । सुखं च धर्म्मसत्त्वे लिङ्गम् । कथम् ? ‘सुखं कुतश्चिदसाधारणकारणादुत्पन्नं कार्यत्वात् पटवत्' । अतो यत्किञ्चित्तत्राSसाधारणं कारणं स धर्मः ।
५१
I
ननु भो नास्ति धर्म्मः, प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वाद् गगनेन्दीवरवद् इति चेत् । उच्यते, हेतोराश्रयासिद्धत्वान्न किञ्चिदेतद् । किञ्च 'नास्ति धर्म्मः' इत्यनेन धर्म्मशब्दो निषिध्यते तद्वाच्योऽर्थो वा ? न तावच्छब्दः त्वयैवोच्यमानत्वात् । नाप्यर्थोऽपाकर्तुं पार्यते—धर्म्म इति पदं कस्यचिद्वाच्यस्य वाचकम् असमस्तपदत्वात् । यानि पुनः समस्तानि पदानि तानि कदाचिद् निर्वाच्यान्यपि भवन्ति यथा 'गगनेन्दीवरम्' । परमसमस्तानि कस्यचिद्वाचकान्येव । असमस्तं च 'धर्म्म' इति पदम्, तस्मात् कस्यचिद्वाचकमेव — इत्यनेन वाच्यार्थस्य प्रमाणसिद्धत्वात् ।
१. घृतादिषु अ. १ पा. टि । २. जातिमान् क. नि. । ३. संयोग - विशेषात् बाणादौ आद्यं कर्म्म भवति । पश्चात् संयोगविशेषापेक्षकर्मतो वेग उत्पद्यते, अ. १ पा. टि. । ४. करणम् अ. १. अ. २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org