________________
सप्तपदार्थी
इच्छात्वसामान्यवती अर्थित्वलक्षणा इच्छा ।।१५२।। अर्थित्वमभिलाषस्तदेव लक्षणं स्वरूपं यस्याः सा अर्थित्वलक्षणा। एतावता काम-मोह-लोभदम्भ-कारुण्य-वैराग्यादयोऽपि इच्छाभेदा एव ।।१५२ ।।
___ द्वेषत्वजातिमान् प्रज्वलनात्मको द्वेषः ।।१५३ ।। येन गुणेन प्रज्वलितमिवात्मानं मन्यते स 'द्वेषः' । अक्षमाऽहंकारादयोऽप्यत्रैवान्तर्भूताः ||१५३||
प्रयत्नत्वसामान्यवान् प्रयत्नव्यवहाराऽसाधारणं कारणं प्रयत्नः ।।१५।।
'देवयात्रायै प्रयत्नमेष करोति' इत्यादि यद्व्यवहरणं तस्यासाधारणं कारणं यत्स 'प्रयत्नः' । स्थैर्यगाम्भीर्यौदार्यादयः प्रयत्नान्तर्भूताः, तेषामप्युत्साहातिशयरूपत्वादिति ।।
गुरुत्वजातिमदेकवृत्ति' आद्यपतनाऽसमवायिकारणं गुरुत्वम् ।।१५५।।
पतनं कर्म; एकस्मिन्नेव वस्तुनि वृत्तिर्वर्तनं यस्य तदेकवृत्ति । पतनस्य पतनकर्मणोऽसमवायिकारणं यत् तद् 'गुरुत्वम्' । पतनकर्मणः त्रयं कारणं स्यात्-लोष्टादिपिण्डो यत्र समवेतं पतनमुत्पद्यते, तत्र लोष्टादौ यद् गुरुत्वं भारो वर्त्तते तदसमवायिकारणम्, लोष्टादिसमवेताद् गुरुत्वादेव तस्योत्पद्यमानत्वात्, निमित्तकारणं चाधाराभावादिकम्। क्वचित् पतनाऽसमवायिकारणं संयोगोऽपि स्यात् यथा कन्दुकक्रीडायां' हस्तेनाहन्यमानः कन्दुकोऽध: पतति । तस्याद्यपतनस्य कन्दुकहस्तसंयोगोऽसमवायिकारणम्', तन्निवृत्त्यर्थमुक्तम् एकवृत्तीति, संयोगस्य सम्बन्धरूपत्वेनोभ्यवृत्तित्वात् । अन्या व्यावृत्तिः स्वधिया विधेया ।।१५५।। ____ द्रवत्वजातिमदेकवृत्ति' स्यन्दनाऽसमवायिकारणंद्रवत्वम् ।।१५६ ।।
स्रोतोभूतानां प्रभूतानां पयसां यन्निम्नाभिसर्पणं तस्यापि कारणत्रयं भवति-तत्र समवायिकारणं सलिलादीनि, असमवायिकारणं च द्रवीभावोऽद्रवस्वभावानां लोष्टादीनां स्यन्दनायोगात्, सेतुबन्धाभावादिकं निमित्तकारणम् । अतस्तत्र स्यन्दने संयोगव्यतिरिक्तमसमवायिकारणं यत्तद् द्रवत्वम् ।।१५६।।
स्नेहत्वसामान्यवान् द्रवत्वशून्यः सङ्ग्रहाऽसाधारणं कारणं स्नेहः ।।१५७॥
सङ्ग्रहणं सङ्ग्रहः पिण्डीभवनमित्यर्थः । न ह्येकाकिनी मृत्तिका रेवादिकं नानाप्रकारेण सङ्गृह्यमाणमपि सङ्ग्रहं पिण्डीभावं प्राप्नोति यावज्जलप्रक्षेपः कृतो न भवति । तस्मिंश्च प्रक्षिप्ते पिण्डी
१. यस्य अ. १ । २. गुरुत्वत्वजा' क. नि. । ३. 'आद्य' इति नास्ति अ. १, अ २ । ४. कुन्दक अ.
१ अ. २ अशुद्धमेतत् । ५. द्रवत्वत्व क. नि. । ६. आद्यस्यन्दनाऽसमवायिकरणं अ. २, नि. । ७. द्रवत्वत्व क. नि. । ८. प्रक्षिप्तेपि पि. अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org