________________
समपदार्थी
विभागत्वसामान्यवान् विभक्तव्यवहाराऽसाधारणं कारणं विभागः ।।१४६ ।।
मिलितयोः द्वयोः द्रव्ययोः पृथक्करणावसरे 'विभक्तावेतौ' इति येन गुणेन व्यवहारः स्यात् स विभागः ।।१४६।।
परत्वसामान्ययोगि परव्यवहाराऽसाधारणं कारणं परत्वम् ।।१४७।।
स्थविरे पुरुषे युवानमवधीकृत्य वलीपलितकार्कश्यादिसान्निध्यात् ‘कालेन विप्रकृष्टोऽयम्' इति परव्यवहारो भवति । तथा विदूरदेशस्थे वस्तुनि आसन्नमवधि कृत्वा ‘अस्माद्विप्रकृष्टमिदम्' इति परव्यवहारो भवति । तयोर्व्यवहारयोर्यदसाधारणं कारणं तत् 'परत्वम्' इति ।।१४७।।
अपरत्वसामान्ययोगि अपरव्यवहारासाधारणं कारणमपरत्वम् ।।१४८।।
सुगमम् । ननु परत्वत्वापरत्वत्वे जाती सम्भवतः न परत्वाऽपरत्वे, तयोर्गुणत्वात्, तत्कथं तथोपन्यास इति चेत् ? सत्यम्, परं भावे भावप्रत्ययासम्भवादिति प्रागुक्तमेवोत्तरम् ।।१४८।।
बुद्धित्वसामान्यवती' आत्माश्रयः प्रकाशो बुद्धिः ।।१४९।। आत्मा आश्रयः स्थान' यस्य स 'आत्माश्रयः' । अज्ञानान्धकारतिरस्कारकारकः सकलपदार्थसार्थप्रकाशक: प्रदीप इव देदीप्यमानो यः ‘प्रकाशः' सा 'बुद्धिः' इति । प्रकाशो बुद्धिरित्यक्ते मार्तण्डमण्डलालोकादौ व्यभिचारः तन्निरासाय 'आत्माश्रयः' इति । प्रकाशपदं सुखादिनिवृत्त्यर्थम् ||१४९।।
सुखत्वसामान्यवनिरुपाध्यनुकूलवेचं सुखम् ।।१५० ।। अनुकूलत्वेन प्रमोदमेदुरत्वेनाऽनुभूयते मनसा संवेद्यते यत् तत् 'अनुकूलवेद्यम्' । विषया ह्यनुकूलत्वेन संवेद्यन्ते मोहावष्टब्धमनोभिरात्मभिः । अतस्तेऽपि सुखं स्युः । तन्निवृत्त्यर्थमुक्तं 'निरुपाधि' इति । विषयास्तूपाधिरूपेण मोहादिनैवानुकूलवेद्याः स्युः परं तत्त्वज्ञाने समुत्पन्ने विगतमोहादिमलः शुद्धस्फटिक इव समुज्वलो नानादुर्योनिसम्भूतप्रभूतदुःखदायकान् विषयान् विषसन्निभानेव पश्यति नानुकूलान्; तस्माद्योगजधर्मानुग्रहादात्मनि यः परमाह्लादो भवेत् तत्सुखम् ।।१५० ।।
दुःखत्वसामान्यवत् निरुपाधि प्रतिकूलवेचं दुःखम् ।।१५१ ।। 'दुःखं' प्रतिकूलमसमाधानरूपं वेद्यते यत् तत् 'प्रतिकूलवेद्यम्'। महामोहमोहितमनोभिरात्मभिस्तपश्चरणादिकं प्रतिकूलं वेद्यते अतस्तदपि स्यात् । तन्निवृत्त्यर्थं 'निरुपाधि' इत्युक्तम् । तत्तूपाधिरूपेण मोहादिनैव तथा वेद्यते न स्वभावात् ।।१५१ ।।
१. 'क्तप्रत्यय क. नि. । २. 'मवधिकृत्वा अ. १ । ३. न परत्वे तयो अ. १ । १. सामान्यवान् अ.
१ । ५ स्थाने अ. १ । ६. ननु विषया अ. २ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org