SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सप्तपदार्थी रसत्वजातियोगी रसनग्राह्यो गुणो रसः ।।१३९।। रसनस्य जिह्वेन्द्रियस्यैव ग्राह्यो ग्रहणयोग्यो यो गुणः स 'रसः' । व्यावृत्तिः प्रायः प्राग्वत् कार्या । अत्र ‘मात्र' शब्दा व्यभिचाराभावात् न प्रयुक्तः, सङ्ख्यादीनां रसनाऽग्राह्यत्वात्।।१३९।। गन्धत्वजातियोगी प्राणग्राह्यो गुणो गन्धः ।।१४०।। घ्राणग्राह्यो गन्ध इत्युक्ते गन्धत्वे सामान्येऽतिप्रसक्तिस्तदुच्छेदाय 'गुणः' इति ।।१४०।। स्पर्शत्वजातियोगी स्पर्शनमात्रग्राह्यो गुणः स्पर्शः ।।१४१।। पञ्चस्वपीन्द्रियेषु केवलेन स्पर्शनेन यो गुणो गृह्यते स 'स्पर्श:' । गुणः स्पर्श इत्युक्ते रूपमपि स्पर्शः स्यात् । तन्निरासाय' 'स्पर्शनग्राह्यः' इति । तथोक्ते सङ्ख्यादावतिव्याप्तिस्तन्निरासाय मात्रेति, तेषां चक्षुषापि ग्रहणात् । गुणग्रहणं स्पर्शत्वनिवृत्त्यर्थम् ।।१४१।। सङ्ख्यात्वसामान्यवती गणनाऽसाधारणं कारणं सङ्ख्या ।।१४२।। कारणं द्विविधं साधारणमसाधारणं च । तत्र साधारणं कारणं बहुषु सजातीयविजातीयकार्येषु हेतुभूतं यथा सर्वासां वनस्पतिजातीनां पृथिव्यादि । असाधारणं पुनः प्रतिनियतविशिष्टकार्योत्पादकं मुख्यतया यथा यवाङ्कुरोत्पत्तौ यवबीजम् । ततश्चैकद्वित्रिचतुःपञ्चषड्सप्तादिका गणना, तस्या असाधारणं कारणं यत् सा 'सङ्ख्या ' । गणनाकारणं पुरुषादयोऽपि भवन्ति तन्निवृत्त्यर्थमसाधारणमिति ।।१४२ ।। परिमाणत्वसामान्ययोगि' मानव्यवहारासाधारणं कारणं परिमाणम् ।।१४३॥ अङ्गुलप्रमाणं वस्त्वेतत्, हस्तप्रमाणं वस्त्रमेतत्, पुरुषप्रमाणोऽयं दण्डः, योजनप्रमाणोऽयं मार्गः, योजनशतप्रमाणोऽयं देशः, योजनसहस्रप्रमाणोऽयं मत्स्यः, योजनलक्षप्रमाणोऽयं मेरुः, अमितप्रमाणं व्योमेत्यादिको येन गुणेन परिमाणव्यवहारो भवति तत्परिमाणम् ।।१४३ ।। पृथक्त्वजातियोगि पृथग्व्यवहाराऽसाधारणं कारणं पृथक्त्वम् ।।१४४ ।। पटात् घटः पृथक, घटात्पट इत्यादिको येन गुणेन व्यवहारो वचनोलापादिः स्यात्तत्पृथक्त्वम् । ननु पृथक्त्वे गुणे पृथक्त्वत्वं जातिः सम्भवति रूपे रूपत्ववदिति चेत् । न, भावे भावप्रत्ययाऽसम्भवात् । अतोऽनुद्दिष्टस्यापि त्वप्रत्ययस्यात्राधिगमः ।।१४४।। संयोगत्वसामान्यवान् अनित्यः सम्बन्धः संयोगः ।।११५।। स्वावयवव्यापिनोर्युतसिद्धयोद्धयोर्द्रव्ययोर्मूर्तयोर्मुर्मूिर्तयोर्वा योऽनित्यः सम्बन्धः स्यात् स संयोगः । सम्बन्धपदं घटादिनिवृत्त्यर्थम् । अनित्यपदं समवायनिवृत्त्यर्थम् ।।१४५।। १. स्पर्शगु' अ. १ । २. अ. १-अ. २ प्रत्योरत्राशुद्ध एव पाठः-तनिरस्यायै स्प-अ. १ । तन्निरस्यायै स्प अ. २ । ३. 'न्यवती सङ्ख्या गण क. । ४. 'त्वजातियोगि क. नि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy