________________
सप्तपदार्थी
आदित्यसंयोगानुत्पाद्यपरत्वापरत्वाऽसमवायिकारणाधारः परत्वाऽपरत्वानधिकरणं दिक्
आदित्यसंयोगनिरपेक्षे ये देशविभागप्रत्यायके परत्वापरत्वे तयोर्यदसमवायिकारणं दिक्पिण्डसंयोगस्तस्याधारः । शेषं पूर्ववत् ।
।।१३५।।
४७
आकाशकालदिशां वास्तवैक्यादाकाशत्व- कालत्व - दिक्त्वलक्षणानि सामान्यानि न सन्ति, सामान्यस्य बहुनिष्ठत्वात् । तेनैतेषां सामान्यकथनेन लक्षणानि नोक्तानि ।। १३५।।
आत्मत्वसामान्यवान् बुद्धिगुणाश्रय आत्मा । । १३६ ।।
बुद्धिगुणस्य ज्ञानस्याश्रय आस्थानयोग्यो यः स 'आत्मा' । मुक्तात्मा समुच्छिन्नबुद्धिगुणो यद्यपि भवति परं पूर्वं संसारावस्थायां बुद्धिगुणस्याश्रयः स्यादिति नाऽव्याप्तिः । आश्रय आत्मा इत्युक्ते सामान्याश्रयत्वेन गुणादावतिव्याप्तिः, तन्निवृत्त्यै 'गुणाश्रयः' इति । तथोक्ते घटादौ व्यभिचारः, तदुच्छित्त्यै 'बुद्धी'ति । आत्मसत्त्वे च बुद्धिः लिङ्गम् । कथम् ? बुद्धिः क्वचिदाश्रिता गुणत्वाद् रूपवत् । न चेयं शरीराश्रिता घटादिवद्भूतकार्यत्वात् मृते चाऽसम्भवात् विशेषगुणत्वे सति अयावद्द्रव्यभावित्वाद्वा, प्रदेशवृत्तित्वाद्वा । नापीन्द्रियाश्रिता तेषां करणत्वात् । यच्च करणं तन्न चैतन्याश्रयो यथा कुठारः । नापि मनसाश्रिता, विशेषगुणत्वात् । तस्माद् यत्रेयमाश्रिता सोऽहमितिप्रतीतिगोचर आत्मेति ।। १३६ ।।
मनस्त्वजातियोगि स्पर्शशून्यं क्रियाधिकरणं मनः ।। १३७।।
क्रिया कर्म्म गमनादिकं तस्याऽधिकरणमाधारः । 'स्पर्शशून्यम्' इत्यनेन पृथिव्यादीनां निरासः । क्रियाधिकरणपदेन व्योमादीनां सर्वेषाममूर्त्तानां निरासः, क्रियाया मूर्तेष्वेव भावात् ।।१३७।।
गुणभेदान् लक्षयति
Jain Education International
रूपत्वजातिमच्चक्षुर्मात्रग्राह्यो गुणो रूपम् ।।१३८ । ।
रूपेषु सितासितलोहितादिरूपेषु 'रूपम्' 'रूपम्' इत्यनुवृत्तिप्रत्ययहेतुभूतं रूपत्वं जातिः, तया सहितं यत्तद् ‘रूपम्' इत्येकं लक्षणम् । यो गुणः षट्स्वपीन्द्रियेषु केवलं चक्षुषैव गृह्यते दृश्यते तद् रूपम् । गुणो रूपमित्युक्ते धर्म्माधर्म्मादावतिप्रसक्तिः । तन्निवृत्त्यै 'चक्षुर्ग्राह्यः' इति । तथोक्ते सङ्ख्यादावतिप्रसङ्गः, तन्निरासाय 'मात्रे 'ति । सङ्ख्यादयस्तु चक्षुर्मात्रग्राह्या न भवन्ति तेषां स्पर्शनेनाऽपि गृह्यमाणत्वात् । 'गुण:' इति पदं रूपत्वसामान्यव्यवच्छेदार्थम् । ननु परमाणुगतं रूपं चक्षुर्माग्राह्यो गुणो न स्यात्, तस्यानुमेयत्वात् । तस्मात्तत्राव्यापकं लक्षणमेतदिति चेत् । न, 'मात्र' शब्दस्य इन्द्रियान्तरग्राह्यत्वनिरासार्थत्वान्न पुनरनुमेयत्वनिरासार्थम् । परमाणुगतं रूपमपि यदीन्द्रियेण गृह्येत तदा चक्षुषैव न स्पर्शनादिनेन्द्रियान्तरेण । तन्नाव्यापकमेतदिति ।।१३८ ।
For Private & Personal Use Only
www.jainelibrary.org