________________
४६
शीतलः स्वाभाविकः स्पर्शो यासां ताः 'शीतस्पर्शा' । शीतस्पर्शस्यान्यत्र काप्यवर्त्तनादन्येषां निरासः ।।१३० ।।
तेजस्त्वजातियोगि उष्णस्पर्श तेजः' ।। १३१ ।। उष्णस्पर्शस्यान्यत्र क्वाप्यवर्त्तनादन्येभ्यो व्यावृत्तिः । शेषं स्पष्टम् ।।१३१।।
सप्तपदार्थी
वायुत्वजातियोगी अरूपः २ स्पर्शवान् वायुः ।।१३२।।
आद्यं कण्ठ्यम् । अरूपो वायुरित्युक्ते गगनादौ व्यभिचारस्तन्निरासाय 'स्पर्शवान्' इति । स्पर्शवान् वायुरित्युक्ते पृथिव्यप्तेजस्स्वतिव्याप्तिस्तन्निवृत्त्यै ‘अरूपः' इति ।।१३२।।
शब्दगुणमाकाशम् ।।१३३।।
शब्दो गुणो यस्मिंस्तत् 'शब्दगुणम्' । शब्दश्चाकाशसत्त्वे लिङ्गम् । कथम् ? शब्दः कचिदाश्रितो गुणत्वाद् रूपवत् । नाऽयं हेतुरसिद्धः, गुणत्वस्य पुरापि साधितत्वात् । नाऽयं सामान्यगुणः, एकेन्द्रियमात्रेणाधिगम्यमानसामान्यवत्त्वात् । नाऽयं स्पर्शवतां विशेषगुणः प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वाद्वा, आश्रयादन्यत्रोपलम्भाद्वा । नाप्ययमात्मगुणो बाह्येन्द्रियग्राह्यत्वादात्मान्तरग्राह्यत्वाद्वा रूपवत् । नाऽप्ययं दिक्कालमनसां गुणो विशेषगुणत्वात् । अथ परिशेषादयं शब्दो विशेषगुणो यत्र समवेतस्तदाकाशम् ।। १३३ ।। आदित्यपरिवर्त्तनोत्पाद्यपरत्वापरत्वाऽसमवायिकारणाधारः परत्वापरत्वाऽनधिकरणं कालः
।। १३४ ।।
आदित्यस्य सूर्यमण्डलस्य मेरुं प्रदक्षिणीकृत्य यत्परिवर्त्तनं परिभ्रमणं तेनोत्पाद्ये ये परत्वाऽपरत्वे; यस्मिन् जाते बहून्यादित्यपरिवर्त्तनानि जातानि भवन्ति तत्र पिण्डे अपेक्षाबुद्धेः सकाशात्परत्वमुत्पद्यते, यस्मिंश्च तान्यल्पानि तत्रापरत्वम् । तस्माद् द्वयोर्भेदप्रत्यायके कालकृते ये परत्वापरत्वे ते आदित्यपरिवर्त्तनोत्पाद्ये उच्येते । तयोः परत्वापरत्वयोर्यत् समवायिकारणं कालपिण्डसंयोगस्तस्याधारः * स्थानम् । परत्वापरत्वयोरनधिकरणमनाधारः । परत्वापरत्वे मूर्त्तद्रव्येष्वेव भवतो नामूर्त्ते । कालश्चामूर्त्तः तस्मात्तयोरनधिकरणम् । परत्वाऽपरत्वानधिकरणं काल इत्युक्तेऽमूर्त्तव्योमादौ व्यभिचारस्तद्व्यवच्छेदार्थं ‘परत्वाऽपरत्वाऽसमवायिकारणाधारः' इति । तथोक्ते दिशि व्यभिचारस्तन्निरासाय 'आदित्यपरिवर्तनोत्याद्य ं पदम् । ‘आदित्यपरिवर्त्तनोत्पाद्यपरत्वाऽपरत्वासमवायिकारणाधारः कालः' इत्युक्ते पुरुषादिपिण्डेऽतिप्रसक्तिः, तत्राऽपि परत्वाऽपरत्वाऽसमवायिकारणस्य कालपिण्डसंयोगस्योभयनिष्टत्वेनाश्रितत्वात्, तन्निरासाय ‘परत्वापरत्वाऽनधिकरणम्' इति । स पिण्डः परत्वाधिकरणमेव स्यादिति ।। १३४ ।।
१. स्पर्शवत्तेजः क. नि. । २. अरूपस्वः क. नि. अ. २ । ३. प्रदक्षणीकृत्य अ. १ । ४ आधारस्थानम् अ.
१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org