________________
सप्तपदार्थी
सामान्यं नित्यमेकमनेकसमवेतम् ।।१२५।। 'समवेतम्' इत्यनेन समवायाभावनित्यद्रव्याणामसमवेतानां व्युदासः । 'अनेकसमवेतम्' इत्युक्तेन विशेषाणां कर्मणां रूपादीनां गुणानां च, तेषामेकमात्रसमवेतत्वात् । 'नित्यम्' इत्यनेन कार्यद्रव्यसंयोगविभागद्वित्वद्विपृथक्त्वादीनां निरासः । अनेके सन्तो विशेषा अप्यनेकसमवेताः स्युरिति तत्रातिप्रसक्तिः, तन्निरासाय एकमिति । केचित्-स्वरूपपरमेवैतत्पदं व्यवच्छेद्याभावेऽपि राभस्यात् प्रयुक्तमित्याहुः ।।१२५।।
विशेषस्तु सामान्यरहित एकद्रव्यवृत्तिः ।।१२६ ।। एकैकस्मिन्नेव द्रव्ये एव समवायलक्षणा वृत्तिर्यस्य स ‘एकद्रव्यवृत्तिः' । 'सामान्यरहितः' इत्यनेन द्रव्यगुणकर्मणां व्युदासः तेषां सामान्यवत्त्वात् । 'द्रव्यवृत्तिः' इत्यनेन समवायाऽभावयोर्व्यवच्छेदः, तयोरसमवेतत्वात् । 'एकद्रव्यवृत्तिः' इत्यनेन सामान्यस्यापि व्यवच्छेदः, सामान्यस्य द्रव्य-गुणकर्मवृत्तित्वेन द्रव्यमात्रवृत्त्यनियमात्, द्रव्यत्वस्य च बहुद्रव्यवृत्तित्वादिति ।।१२६।।
नित्यः' सम्बन्धः समवायः ।।१२७।। सम्बन्धौ द्वावेव स्तः संयोगः समवायो वा । 'सम्बन्धः' इत्यनेनाऽपरेषां सर्वेषां निरासः । 'नित्य'पदेन संयोगस्य ।।१२७।।
प्रतियोगिज्ञानाधीनज्ञानोऽभावः ।।१२८।। 'प्रतियोगी' विरोधी यथा घटाभावस्य घटः, तस्य ज्ञानं परिच्छेदः, तदधीनं तदायत्तं ज्ञानं यस्य स 'प्रतियोगिज्ञानाधीनज्ञानः' । प्रतियोगी यदि पूर्वं ज्ञातः स्यात्तदैव तदभावो ज्ञायते नाऽन्यथेति भावः ।।१२८।। एवं सप्तानां लक्षणमाख्याय येनैव क्रमेणैतेषां भेदा उक्तास्तेन क्रमेणैव लक्षणान्यप्याह
पृथिवीत्वसामान्यवती' गन्धवती पृथिवी ।।१२९ ।। लोष्टेष्टिकामृदादिषु 'पृथिवी' 'पृथिवी' इत्यनुवृत्तिप्रत्ययहेतुभूतं पृथिवीत्वं सामान्यम् । तद्वती 'पृथिवी' इत्येकं लक्षणम् । अनया पद्धत्या सर्वत्राग्रे व्याख्या स्वस्वसामान्यप्रयोगे कर्त्तव्या । गन्धो घ्राणेन्द्रियग्राह्यो गुणो विद्यते यस्याः सा 'गन्धवती' । गन्धस्य पृथिवीं व्याप्य वर्तनात् तां परित्यज्यान्यत्र क्वाप्यवर्त्तनात् ।।१२९।।
अप्त्वजातिमत्यः शीतस्पर्शा आपः ।।१३० ।। एकं लक्षणं स्वस्वसामान्यप्रयोगेणात्राकारि । द्वितीयं तदपरेणासाधारणधर्मकथनेन । शीतः १. वेतं च नि. । २. राभसात् अ. २ । ३. एकव्यक्ति क. नि. । ४. नित्यस नि. । ५. 'न्यवती पृथिवी क. 'न्यवती गन्धवती च पृ नि. । ६. शीतस्पर्शवत्य आ क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org