________________
४४
सप्तपदार्थी
ननु द्रव्यत्वं तदा ज्ञायते यदि केनचिदसाधारणधर्मेण द्रव्यमितरेभ्यो भिन्नमवगतं स्यात् तेनानेन लक्षणेन द्रव्यस्य न तत्त्वज्ञानं स्फुटं स्यादित्याशक्य लक्षणान्तरे द्वे आह
गुणवत्समवायिकारणं चेति ।।१२१।। गुणाः समवेता विद्यन्ते यस्मिंस्तत् 'गुणवत्' । चतुर्विंशतिगुणमध्ये यत्राऽन्यतरः कोऽपि गुणो भवति तद् द्रव्यम् । ननु “उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठेत्” इति सिद्धान्तवाक्यम् । क्षणमगुणे द्रव्ये गुणवत्त्वस्यावर्त्तनादव्यापकं लक्षणमेतद् इति चेत्, नैवम्, गुणवदिति पदस्यायमर्थो गुणवत्त्वात्यन्ताभावाभावो गुणवत्त्वं, तच्चास्त्येव भविष्यतो गुणस्य तत्र सत्त्वादिति ।
द्वितीयं लक्षणम्-यत्र समवेतं कार्यमुत्पद्यते तत् 'समवायिकारणम्' । अभाववर्जानां सर्वेषां कार्याणां द्रव्यसमवेतत्वेनैवोत्पाद्यत्वात्तदेव समवायिकारणं स्यादिति तृतीयं लक्षणम् । 'च' शब्दोऽत्र पूर्वलक्षणाद् भिन्नत्वसूचनार्थः । 'इति' शब्दो द्रव्यलक्षणसमाप्त्यर्थः ।।१२१।। गुणलक्षणमाह
गुणत्वजातियोगी गुणः ।।१२२ ।। 'गुणः' जातिसामान्ये एकोऽर्थः । शेषं पूर्ववत् ।।१२२।। * स्फुटप्रतीतिजनकं लक्षणान्तरमाह
जातिमत्त्वेऽचलनात्मकत्वे सति समवायिकारणरहितश्चेति ।।१२३ ।।
'जातिमत्त्वे सति' इत्युक्तेन सत्तारहितानां सामान्यविशेषसमवायाऽभावानां व्युदासः । 'अचलनात्मकत्वे सति' इत्यनेन कर्मणां निरासः । 'समवायिकारणरहितः' इत्यनेन द्रव्यस्य । 'च' इति शब्द: पूर्ववत् ।।१२३।।
कर्म कर्मत्वजातियोगि, आधसंयोगविभागासमवायिकारणं चेति ।।१२४ ।।
संयोगविभागौ द्विविधायुक्तौ । तयोर्यावाद्यौ कर्मजसंयोगविभागौ तयोर्यदसमवायिकारणं तत् 'कर्म' । 'कारणं कर्म' इत्युक्ते व्यभिचारो द्रव्यादौ, तन्निरासार्थम् 'असमवायिकारणम्' इति । द्रव्यसामान्यविशेषसमवायाऽभावाख्याः पञ्च पदार्था असमवायिकारणं न स्युरिति तन्निरासः । तथोक्ते परमाणुरूपं व्यणुकरूपस्यासमवायिकारणं स्यादिति प्रसक्तिः, तन्निरासाय 'संयोगविभागाऽसमवायिकारणम्' इति । तथापि संयोगजसंयोगविभागजविभागयोरसमवायिकारणं संयोगविभागौ भवतः, तत्रातिव्याप्तिः, तद्व्यवच्छेदार्थम् 'आद्य' इति ।।१२४ ।। .
१. तृतीयलक्षणं अ. १ । २. गुणस्तु गुणत्वजातियोगी क. नि. । ३. विभागयोरसमवायि क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org