SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सप्तपदार्थी ४३ प्रयोगस्तु लक्षणमितरेभ्यो भिद्यते केवलव्यतिरेकिहेतुविशेषवचनत्वात् । यदितरेभ्यो न भिद्यते तत्केवलव्यतिरेकिहेतुविशेषवचनमपि न भवति यथा धूमवत्त्वम् । न च तथेद केवलव्यतिरेकिहेतुविशेषवचनं न भवति । तस्मादितरेभ्यो न भिद्यते इति न, किन्तु भिद्यत एव ।।११७।। । ___ 'लक्षणं' पक्षः । ‘इतरेभ्यः' लक्षणव्यतिरिक्तेभ्यो 'भिद्यते' भेदं प्राप्नोति भिन्नं भवतीति साध्यो धर्मः । लक्षणव्यतिरिक्ताश्च सर्वे विपक्षा इति सपक्षो नास्ति । लक्षणव्यतिरिक्ता ये केवलान्वयि अन्वयव्यतिरेकिहेतवो ये वाऽन्येऽपि पदार्थास्ते इतरेभ्यो लक्षणव्यतिरिक्तेभ्यो न भिद्यन्त इति न, किन्तु लक्षणव्यतिरिक्ता एव भवन्ति । 'धूमवत्त्वं' हि अन्वयव्यतिरेकि । शेषं स्पष्टम् ।।११७।। एवं सर्वत्रापि लक्षणे प्रयोगो द्रष्टव्यः ।।११८।।। ‘एवम्' अनया पद्धत्या सर्वस्मिन् ‘लक्षणे' पञ्चावयवं वाक्यं प्रयोक्तव्यम् । कथम् ? यल्लक्ष्यं भवति स पक्षः क्रियते यच्च लक्षणं स हेतुर्दीयते, लक्ष्यव्यतिरिक्तश्च व्यतिरेकव्याप्तिपूर्वको दृष्टान्त उच्यते । यथा 'द्रव्यमितरेभ्यो भिद्यते गुणवत्त्वात्', यदितरेभ्यो न भिद्यते तद् गुणवदपि न, यथा गुणः, न च तथेदं गुणवन्न भवति; तस्मादितरेभ्यो न भिद्यते इति न, किन्तु भिद्यत एव । तथा गुण इतरेभ्यो भिद्यते द्रव्यकर्मादिभ्यो भिन्नो भवितुमर्हति जातिमत्त्वेऽचलनात्मकत्वे सति समवायकारणरहितत्वात् । यन्नैवं न तदेवं यथा द्रव्यम् । उपनयनिगमने पूर्ववत् । तथा कर्म इतरेभ्यो भिद्यते आद्यसंयोगविभागासमवायिकारणत्वादित्यादिप्रकारेण यावन्ति लक्षणानि सन्ति तानि हेतवः क्रियन्ते । 'इतरेभ्यो भिद्यते' इत्येव साध्यते, लक्ष्याणि सर्वाण्यपि पक्षीक्रियन्ते । इति सर्वेषु लक्षणेषु द्रष्टव्यम् ।।११८ ।। ___अथ येनैव क्रमेणोद्देशः कृतस्तेनैव क्रमेण लक्षणानि वक्तव्यानि । तेन पूर्व प्रतिपादितस्य पदार्थस्य लक्षणं वक्तव्यमित्याशङ्कयाह तत्र पदार्थलक्षणं कृतमेव ।।११९।। तत्र सर्वेषां लक्षणावसरे पदार्थलक्षणं वक्तव्यम्, परं तत् 'प्रमितिविषयः' इत्यनेन कृतमेवेति न पुनरुच्यते ।।११९।। अथ प्रथमपदार्थस्य द्रव्यस्य लक्षणमाह द्रव्यं द्रव्यत्वसामान्ययोगि ।।१२०।। सर्वेषु पृथिव्यादिषु 'द्रव्यं द्रव्यम्' इत्यनुवृत्तिप्रत्ययहेतुभूतं द्रव्यत्वं सामान्यम्, तेन सह सम्बन्धः समवायलक्षणो योगो विद्यते यस्य तत् 'द्रव्यत्वसामान्ययोगि' इत्येकं लक्षणम् ।।१२० ।। १. विशेषत्वात् क. । २. विशेषोऽपि क. । २. म् । तथा चेदं क. नि. । ४. 'इदं' लक्षणलक्षणं 'तथा' धूमवत्त्ववत् केवलव्यतिरेकिहेतुविशेषवचनं न भवतीति न अ. १ पा. टि. । ५. विशेषो न भवतीति न क. । ६. सर्वत्र ल°-क. नि. । ७. पदार्थसामान्यलक्षणं क. नि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy