________________
सप्तपदार्थी
दुःखं तु शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिप्रकारम्
।।११४ ।। 'शरीरम्' भोगायतनम् । 'चक्षुः-श्रोत्र-रसन-स्पर्शन-घ्राण-मनोलक्षणानि षडिन्द्रियाणि' । शुभे रूपे पुनः पुनर्दिदृक्षा, अशुभे पुनः सर्वत्र जुगुप्सा १, शुभे रसे लौल्यम् २, शुभे गन्धे जिघृक्षा ३, शुभे शब्दे शुश्रूषा ४, पट्टकूलललनाङ्गनादिमृदुषु वस्तुषु स्पर्शनवाञ्छा ५, मनसा सुखाभिलाषः ६ इत्येते षड्विषयाः' । षड्भिरिन्द्रियैरुत्पाद्या यास्ताः ‘षड् बुद्धयः' इति एकोनविंशतिप्रकाराः । अनुकूलतया वेद्यं वैषयिकादिकं 'सुखम्' । प्रतिकूलतया वेद्यं गदाधुत्पाद्यं 'दुःखम्' इत्येकविंशतिप्रकारकमपि दुःखं विवक्षितम् ।
अत्र शरीरं दुःखायतनत्वाद्दुःखम् । षडिन्द्रियाणि, षविषयाः, षड्बुद्धयश्च दुःखहेतुत्वात् दुःखम् । दुःखं तु मुख्यत एव पीडासंतापात्मकम् । सुखं तु दुःखानुषङ्गात् दुःखमिति ।।११४ ।।
इयता ग्रन्थेन प्रायो भेदा एवाभिहिताः ।। अथ लक्षणाभिधित्सुरादौ संगतिमाह
इदानी लक्षणाधीनत्वात्तत्त्वज्ञानस्य लक्षणमेवोच्यते ।।११५।।
सम्प्रति ‘लक्षणमेव' असाधारणधर्म एव सर्वेषां पदार्थानामुद्दिष्टक्रमेण प्रतिपाद्यते । लक्षणप्रतिपादने को हेतुरित्याशङ्ख्य कारणमाह-'तत्त्वज्ञानस्य' सम्यग्वस्तुपरिच्छेदस्य ‘लक्षणाधीनत्वात्' वस्तुस्वरूपं लक्षणेन परिच्छिद्यते नोद्देशमात्रेणेति । तेन सर्वेषां पदार्थानां सङ्कलितान्येव तानि कथ्यन्ते। एकवचनं सूत्रे जात्यपेक्षायां यथा निष्पन्नो व्रीहिः । अथवा प्रतिपदार्थमेकमेकं लक्षणमभिधास्यते प्रायो न सर्वाणीति सूत्रार्थः ।।११५।।
ननु लक्षणस्य लक्षणेन तत्त्वं ज्ञायते, अन्यथैव वा ? अन्यथैव चेत; तद्वदपरेषामपि तत्त्वं ज्ञास्यते, किं लक्षणप्रयोगेण ? लक्षणेनेति चेत्; तत्किमित्याशङ्कय लक्षणस्य लक्षणमाह
केवलव्यतिरेकी हेतुविशेषो लक्षणम् ।।११६ ।। लक्ष्यव्यतिरिक्ते वस्तुनि यो नियतं न वर्त्तते, लक्ष्ये च व्याप्य वर्तेत स धर्मो ‘लक्षणम्' । हेतुविशेषो लक्षणमित्युक्ते केवलान्वयी हेतुरपि लक्षणं स्यात् । तन्निवृत्त्यर्थं 'व्यतिरेकी ति । तथोक्तेऽन्वयव्यतिरेकिणि व्यभिचारस्तन्निवृत्त्यर्थं 'केवले'ति ।।११६।। ।।
__ननु यो हेतुः स पञ्चावयवेन वाक्येन प्रतिपाद्यते । परस्य तल्लक्षणं हेतुविशेष इत्युक्तम् । तत्कथं पञ्चावयवेन वाक्येन' प्रतिपाद्यत इत्याशङ्क्य प्रयोगविधिमाह१. तद्विषयाः क. । २. अत्र मितभाषिणीकारेण प्रकरणसमाप्तिं स्पष्टतया दर्शयितुं पृथक श्लोक एव रचितः । मूले प्रकरणसमाप्त्यर्थं न किञ्चिदस्ति । 'क' पुस्तके 'इत्युद्देशप्रकरणम्' इत्यपि यद्दर्शितं तत् प्रत्योर्नास्ति । ३. लक्षणेन चेत् अ. १ । ४. वयवेन वा. प्रतिपद्यते अ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org