________________
सप्तपदार्थी
तस्य ज्ञानमनुभवः ।।१११।। 'तस्य' तत्त्वस्य ‘ज्ञानम्' अनुभवः स्मृतिव्यतिरिक्तो बोधः ।।१११।। स च चतुर्विधो भवतीत्याह
स च श्रवण-मनन-निदिध्यासन-साक्षात्कारलक्षणश्चतुर्विधः ।।११२।।
'श्रवणम्' आकर्णनं वस्तूनां शास्त्रेभ्यः स्वरूपाकर्णनम् । 'मननम्' युक्तिभिर्विचारणम् । 'निदिध्यासनम्' ध्यानम् । साक्षात्कारः' प्रत्यक्षावलोकनमिति अनुभवः चतुर्धा स्यादिति ।।११२।। निःश्रेयसं तत्किमित्याहनिःश्रेयसं पुनस्तत्त्वज्ञानोत्पायमिथ्याज्ञानकारणप्रध्वंससमानाधि
करणतत्कार्यसमस्तदुःखाभावः।।११३।। तत्त्वज्ञानेन सम्यगवबोधेन उत्पाद्यो योऽसौ मिथ्याज्ञानकारणानां प्रध्वंसः तेन सह समानाधिकरणः-एकनिष्ठः तत्कार्याणां मिथ्याज्ञानकार्याणां समस्तानां दुःखानां योऽभावस्तत् 'निःश्रेयसम्' । एतावता क्रमोऽयमुपदिष्टः । एतस्माच्छास्त्रात्पदार्थानां तत्त्वज्ञानम् । तस्माद् मिथ्याज्ञानकारणानि संशयविपर्ययादीनि प्रलीयन्ते ततश्च मिथ्याज्ञानकार्याणां समस्तानां दुःखानामभावो भवति । तच्च निःश्रेयसम् । अतस्तत्त्वज्ञानं निःश्रेयसहेतुरिति ।
अभावो निःश्रेयसमित्युक्ते घटाभावादावतिव्याप्तिः स्यात्तन्निरासाय दुःखाभावः' इति । तथोक्ते राजादीनां प्रतिकूलं दुःखं नास्ति, सोऽपि दुःखाभावो निःश्रेयसं स्यात्, अत उक्तं 'समस्ते'ति । समस्तदुःखाभावो निःश्रेयसमित्युक्ते घटादौ दुःखात्यन्ताभावोऽस्ति । तत्रातिव्याप्तिः स्यात् । तन्निरासार्थं 'मिथ्याज्ञानकारणप्रध्वंससमानाधिकरण' पदम् । घटादौ मिथ्याज्ञानकारणानां प्रध्वंसो जातो नास्ति । तथोक्ते असम्भवि लक्षणं मिथ्याज्ञानकारणानां प्रध्वंसे सति समस्तदुःखाभावस्यासम्बन्धित्वाद् असम्भवात् । तन्निरासाय 'तत्कार्ये'ति । मिथ्याज्ञानकारणे प्रध्वंसे मिथ्याज्ञानकार्याणि समस्तानि दुःखान्यपि प्रलीयन्ते इति सुसम्भवः । तथोक्ते प्रलयावस्थायामात्मसु व्यभिचारः स्यात् तत्रेश्वरेच्छया सर्वेऽप्यात्मानः शरीरादिदुःखरहिताः स्वरूपेणावतिष्ठन्ते । तन्निरासाय 'तत्त्वज्ञानोत्पाद्ये' ति । संहारावस्थायामीश्वरेच्छोत्पाद्यो भवति, न तु तत्त्वज्ञानोत्पाद्य इति । 'समानाधिकरण' पदं बौद्धाभिमतमोक्षनिरासार्थम् । तेषां हि मतेऽन्यस्य तत्त्वज्ञानमन्यस्य मिथ्याज्ञानकारणध्वंसोऽन्यस्य समस्तदुःखाभावः । तन्मतमपाकर्तुं समानाधिकरणमिति ।।११३।।
अथ समस्तं दुःखं कतिप्रकारमित्याशङ्कयाह
१. प्रध्वंसेन सह सदृशाश्रयः अ. १. पा. टि । २. प्यात्मनः अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org