SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सप्तपदार्थी वर्त्तते ? “गुणवद् द्रव्यम्" इति वचनात् सङ्ख्या गुणश्चेद् द्रव्येष्वेव भवेत् । सत्यम्, गुणादिषु सङ्ख्या नास्त्येव, तथापि गुणादिषु सङ्ख्याव्यवहारः सङ्ख्याप्रत्यासत्तिनिबन्धनः । द्रव्येष्वेव गुणादयोऽपि सन्ति सङ्ख्याप्यस्ति । अतः प्रत्यासत्तेः सङ्ख्या गुणादिषु उपचर्यते ।।१०४।। एतेषु च' मध्ये नित्यानां कारणत्वमेव ।।१०५।। एतेषां सप्तानामपि पदार्थानां 'मध्ये नित्यानां कारणत्वमेव' । नित्यानि वस्तूनि कारणरूपाण्येव भवन्ति, न तु स्वयमुत्पद्यन्ते, नित्यानामुत्पत्तिरहितत्वात् ।।१०५।। अनित्यानां कारणत्वं कार्यत्वं च ।।१०६ ।। अनित्यानां तन्त्वादीनां कारणत्वं पटाद्युत्पत्तौ निमित्तत्वं'; कार्यत्वं च स्वावयवानाम् ।।१०६ ।। तत्र कारणं कतिविधमित्याशङ्क्याहतत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणं चेति त्रिविधम् ।।१०७।। यत्र समवेतं कार्यमुत्पद्यते तत्-'समवायिकारणम्' यथा पटस्य तन्तवः, समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यम् 'असमवायिकारणम्' यथा तन्तूनां परस्परसंयोगः । 'निमित्तकारणम्' च तदुभयव्यतिरिक्तं कुविन्दवेमतुर्यादिकम् । एवं भेदा उक्ताः ।।१०७।।। अपरे भेदाः स्वयमूहनीयाः ।।१०८।। 'अपरे भेदाः' सूक्ष्मा वस्तूनां प्रकाराः ‘स्वयमूहनीयाः' स्वयमेव ज्ञातव्या इत्यर्थः ।।१०८ ।। एतेषां ज्ञानेन किं साध्यमित्याशङ्य प्रयोजनमाह एतेषां तत्त्वज्ञानं निःश्रेयसहेतुः ।।१०९।। 'एतेषां' पूर्वोक्तानां पदार्थानां 'तत्त्वज्ञानं,' यथाऽवस्थितस्वरूपावगमो 'निःश्रेयसहेतुः'-मोक्षकारणमित्यर्थः । अत एतेषां प्ररूपणं सप्रयोजकम् ।।१०९।। तत्त्वज्ञानमित्युक्तम्, तत्त्वं किं नामेत्याशङ्क्याह तत्त्वमनारोपितरूपम् ।।११०।। अतस्मिंस्तदध्यवसाय आरोपस्तद्रहितं यद्वस्तुनः स्वरूपं तत् 'तत्त्वम्' ।।११०।। तस्य ज्ञानं किमुच्यते ? इत्याशङ्क्याह१. 'च' नास्ति क. नि. । २. अत्र निमित्तत्वमिति पदं न कारणविशेषपरम्, किन्तु कारणसामान्यपरमिति बोध्यम्संपादकः । ३. तच्च-क । ४. त्रिविधं कारणम् नि. । ५. अत्र अ. २ पुस्तके पाठो न स्पष्टः । ६. सूत्रमिदं अ. १, अ २ प्रत्यो स्ति । ७. निःश्रेयसे क. । ८. 'रोपितम् नि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy