________________
सप्तपदार्थी
मपि दाहकत्वमस्तीति चेत्; तर्हि शक्त्याः किं फलम् ? तस्मान्न शक्तिः स्वरूपात् पृथगिति ।।९८ ।।
ननु 'दण्डी' इत्यत्र प्रतीतेर्दण्डपुरुषयोरन्यतरो विषयः उभयं वा ? न तावदुभयम, ज्ञानस्य युगपत्पदार्थद्वयाग्राहकस्वभावत्वात् । नाऽप्यन्यतरो दण्डविशिष्टस्यैव पुरुषस्य ग्रहणोपलम्भात् । तस्माद्दण्डपुरुषव्यतिरेकिणी 'दण्डी' इति मिलितप्रतीतिवेद्या तदुभयनिष्ठा एकरूपा विशिष्टिर्नाम पदार्थान्तरमस्तीत्याशङ्कयाह
विशिष्टिस्तु' विशेषणविशेष्यसम्बन्ध' एव ।।१९।। विशेषणं 'विशिष्टिः' सा न पदार्थान्तरं किन्तु 'विशेषणविशेष्यसम्बन्धः' । विशेष्यते विजातीयेभ्यो भेदेनाभिधीयतेऽनेनेति विशेषणं दण्डः, विशेष्यते यत्तद्विशेष्यं पुरुषः, तयोर्यः परस्परं सम्बन्धः संयोगः स एव विशिष्टप्रत्ययस्य विषयः । क्वचित्समवायोऽपि यथा 'शुक्लोऽयं पटः' इति ।।९९।। ननु सादृश्यं भिन्नपदार्थो वक्तव्यः सदृशेष्वपि वैसदृश्यदर्शनाद् इत्याशङ्क्याह
___ सादृश्यम् उपाधिरूपं सामान्यम् ।।१०।। न जातिरूपं, जातिरूपत्वे सार्वदिकत्वप्रसङ्गात् ।।१०।। ननु लघुत्वं गुणान्तरमस्ति । तथा च सति पञ्चविंशतिर्गुणा इत्याशङ्कयाह
लघुत्वं गुरुत्वाभाव एव ।।१०१।। यत्र गुरुत्वं वह्निपवनादिषु न, तत्र लघुत्वम् । तच्च गुरुत्वाभावरूपमेव न गुणान्तरम् ।।१०१।। ज्ञाते वस्तुनि ज्ञातता पदार्थान्तरमुत्पद्यते इत्याशङ्याह
ज्ञातता' ज्ञानसम्बन्ध एव ।।१०२।। ज्ञाते वस्तुनि 'ज्ञातता' लक्षणो यो धर्मः प्रतीयते स, ज्ञानेन सह यः सम्बन्धी विषयविषयिभावलक्षणः स एव, न वस्तुविषयो धर्म इति ।।१०२।।
एवमन्यस्यापि पदार्थस्य सतोऽत्रैवान्तर्भावः ।।१०३।। ‘एवं' यत्किञ्चिद्वस्तु पदार्थरूपं तावत्प्रतीतिगोचरं तत्सर्वमत्रैवान्तर्भूतम् । एष्वेव सप्तसु पदार्थेष्वन्तर्भूतमित्यर्थः ।।१०३।।
___ यथा सङ्ख्याया एव गुणे (या गुणे एव) ।।१०४।। 'सङ्ख्यायाः' गुणे एव' अन्तर्भावो न पृथक पदार्थान्तरमित्यर्थः । ननु सङ्ख्या गुणश्चेत् कथं गुणादिषु १. वैशिष्ट्यं तु विशे' क. नि. । २. ष्यभावः सम्बन्धः ॥ क । ३. 'एव' नास्ति क. नि. । १. नास्त्येतत् सूत्रम्-क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org