________________
३८
सप्तपदार्थी
त्वापत्तेः । नापि स्पर्शवन्तः, तत्कार्ये स्पर्शाऽनवलोकात्। ननु प्रतीयते एव शीतस्पर्शः तमसि, पित्ताकुलस्य मान्द्याधिष्ठितस्य तापशान्त्यर्थं वैद्यैस्तमसि संस्थापनोपदेशादिति चेत्, तदसारम्, कारागृहादौ प्रभूतनिरन्तरध्वान्तसद्भावेऽपि महदूष्मानुभावात् । यो मन्दस्य तमसि स्थापनोपदेशः स तैजसोष्णस्पर्शनिवृत्यर्थं, तमसश्च तेजोऽभावरूपत्वात् । कारागृहादौ तमोभावे ऊष्मानुभावादुष्णस्पर्श तदिति चेत्, न, औदर्यतेजसः प्राणवायुना दीप्यमानस्यैव तत्रौष्ण्यात्। तस्मादस्पर्शवदेव तमः । तत्र प्रमाणं-तमो न स्पर्शवत् स्पर्शनाग्राह्यत्वाद्गगनवत् । नाऽयं हेतुरसिद्धः, निमीलितनयनस्य' स्पर्शनेनाऽत्रान्धकारमस्ति नास्ति' वेति प्रत्ययाभावात् । ततश्चाऽस्पर्शवत्वान्न रूपवत्त्वम् । ननु कृष्णाकारेण कुतस्तत्प्रतीतिरिति चेत् ? उच्यते, सर्वे चाक्षुषाः पदार्था आलोकसहकृताः चक्षुषा विलोक्यन्ते; यत्र चालोको न भवति तत्र पदार्थावलोकाभावे' भ्रान्त्या कृष्णाकारा प्रतीतिर्भवति । यथा प्रकाशेपि' वर्तमानस्य पुंसो निमीलितनयनयमलस्य प्रलीननयनस्य वा चक्षुषा पदार्थाऽवभासाभावे सर्वं जगद् अञ्जनावलिप्तमिवावभासते । तस्मान्न तत्र रूपमस्ति । तस्मान्न द्रव्यं किन्तु स भासामभाव एवेति स्थितम् ।।९७।।
- ननु एते सप्ताऽपि पदार्थाः शक्तिमन्तः कार्याणि कुर्युस्तद्रहिता वा ? द्वितीयपक्षे पृथिवीवद्दहनोऽपि दहनक्रियां न कुर्यात्, दाहकत्वरहितत्वाऽविशेषात् । शक्तिमन्तश्चेत्; तर्हि सा शक्तिरष्टमः पदार्थः किं नावादीत्याशङ्याह
शक्तिः स्वरूपमेव ।।९८।। 'शक्तिः' दहनादीनां ‘स्वरूपमेव' न पुनः पृथक् पदार्थ इत्यर्थः ।
ननु दाहकत्वस्य स्वाभाविकत्वाङ्गीकारे मणिमन्त्रौषधीनां सान्निध्येऽपि ज्वलनोऽङ्गुल्यादि प्रज्वालयेत्, स्वभावस्यान्यथा कर्तुमशक्यत्वात् । न चैवं दृश्यते । तस्माद्दाहकत्वं नाम शक्तिर्वस्तुतः पृथग्भूताऽस्ति । सा च मणिमन्त्रादिसान्निध्येन प्रतिबध्यते । ततश्च दाहकत्वं पावके इति चेत् ।
तदपि फल्गु, यतो दहनस्येदृश एव स्वभावो यत्तादृशमणिमन्त्रादीनामसान्निध्ये एव दाहकत्वं, न तत्सान्निध्ये । यथा लोहस्य अयस्कान्तपाषाणसान्निध्ये एव स्वतन्त्रा क्रिया, न पुनरसान्निध्ये, तस्य तथाविधस्वभावत्वात् । ननु शक्त्यनङ्गीकारे गगनेन्दीवरवत् न किञ्चिद्वस्तु कार्यं कुर्यात्, निःशक्तिकत्वाऽविशेषात् इति चेत् । उच्यते, शक्तिः शक्तिमती तद्रहिता वा ? आये सैव शक्त्यन्तरं वा ? सा चेत्, आत्माश्रयः; शक्त्यन्तरं चेत्, स्पष्टैवानऽवस्था । द्वितीयपक्षे सा शक्तिः स्वाश्रये किञ्चिद्विशेष करोति वा न [करोति ?] | करोतीति चेद, व्याहतोऽसि , भवन्मते निःशक्तिकस्य गगनेन्दीवरायमानत्वात् । नेति चेत्; पूर्ववत् शक्त्युत्पत्तावपि अदाहकत्वमेव, पावके विशेषानाधानात्। अथ पूर्व
१. इति आक्षेपे अ. १. पा. टि । २. 'नयनस्पर्शनेऽत्रान्धकार अ. २ । ३ मस्ति वेति अ. १ । १. भावभ्रा'
अ. २ । ५. प्रकाशोऽपि अ. १ । ६. शक्तिर्द्रव्यादिकस्व० क । शक्तिर्द्रव्यादिस्व-नि. । ७. किश्चिद् अ. १ । ८. व्याहितोऽसि अ. १ । ९. शक्त्युत्पत्तावदाह अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org