________________
सप्तपदार्थी
उपाधिरूपं किमुच्यते इत्याशङ्याह
उपाधिरूपं पाचकत्वादि' ।।९४ ।। पचतीति पाचकस्तस्य भावस्तत्त्वम् । यतो हि पाचकेषु सर्वेषु पाचकोऽयं पाचकोऽयमिति अनुवृत्तिप्रत्ययो भवतीति पाचकत्वं सामान्यं भवति, पाचकोऽपि पचनक्रियापरित्यागादपाचक इति प्रतीयते, यतः स पाचकः पठनक्रियाकरणात्पाठकोऽपि, लेखनक्रियाकरणात् लेखक इति । तस्मात् पाचकत्वं सामान्यम्, अनुवृत्तिप्रत्ययहेतुत्वात्; संबाधकत्वाच्चोपाधिरूपं कल्प्यते "मुख्यार्थबाधे उपाधिः' इति वचनात् ।।९४ ।।
विशेषाणां त्वनन्ता भेदाः प्रागुक्ता एव । समवायस्य भेदो नास्ति तस्यैक्यात् । अथ चतुर्णामप्यभावानां प्रभेदान् वक्ति
प्रागभावादयः प्रतियोगिभेदादनन्ता एव ।।९५।। प्राक् पूर्वमभावो यथा चक्रचा(च)टितायां मृदि घटप्रागभावः । आदिशब्दात् प्रध्वंसाभावादयस्तेषां प्रतियोगी विरोधी; यथा घटाभावादेर्घटादिः । तस्य भेदादानन्त्यात् प्रत्येकं चत्वारोऽप्यभावा अनन्ता एव । यस्याऽभावः कथ्यते तस्य यः सम्बन्धी प्रतियोगी यथा घटाभावस्य घट इति ।।९५।।
ननु परत्वेन विप्रकृष्टत्वप्रत्ययो भवति, अपरत्वेन अदूरत्वप्रत्ययो भवति । ते परत्वापरत्वे उक्ते परं 'मध्यमोऽयं' इति प्रतीतिहेतुर्मध्यमत्वं गुणो नोक्तः किमर्थमित्याशङ्कामधःकरोति
___ मध्यमत्वं परत्वापरत्वाभावः ।।९६ ।। यत्र परत्वापरत्वयोरभावो भवति तत्र मध्यमत्वं प्रतीयते परं स' तयोरभावः, न गुणान्तरमिति ।।९६।।
ननु नवैव द्रव्याणीति न सङ्गतम्, दशमद्रव्यस्यान्धकारस्य भावात् । तथाहि तमो द्रव्यम्, रूपाधिकरणत्वादञ्जनवदिति प्रमाणसिद्धेः-इत्याशङ्कयाह
अन्धकारोऽपि भासामभाव एव ।।९७।। न पुनर्द्रव्यान्तरम् । यत्पुनः प्रमाणमभाणि तदसिद्धदोषदुष्टमिति न साध्यसाधकम् । तमश्चेद् द्रव्यं तदा नित्यमनित्यं वा ? न तावन्नित्यम्, भास्करकरप्रसरावसरे विनाशदर्शनात् । अनित्यं चेत्, आकस्मिकं परमाणुप्रक्रमेणोत्पन्नं वा ? न तावदाद्यम्, आकस्मिकस्य वस्तुनोऽसम्भवात् । द्वितीयपक्षे ते परमाणवः स्पर्शवन्तः स्पर्शशून्या वा ? न तावत्स्पर्शशून्याः, तेषां मनोवत् कार्यद्रव्यानारम्भक
१. त्वम् || अ. १ अ. २ । २. भवति । पाचकत्वं अ. १ । ३. मध्यत्वम् क. नि. । १. मध्यमगुण:
अ. १. पा टि । ५. अन्धकारोप्यभाव क. नि. । ६. अस्पर्शवत्त्वान्मनसो द्रव्याऽनारम्भकत्वं इति प्रशस्तकरभाष्ये अ. १ पा. टि. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org