Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 114
________________ सप्तपदार्थी ८९ १९३ १ १७३ २५ ४ १३१ १२९. तन्मात्रावस्थायि क्षणिकम् । १३०. तर्क-स्वप्नौ संशयविपर्ययावेव । १३१. तस्य ज्ञानमनुभवः । १३२. ता अपि शरीरेन्द्रियविषयरूपाः । १३३. तादात्म्यनिषेधोऽन्योन्याभावः । १३४. तुल्यत्वेनाभावयोः प्रत्यभाववचनं प्रसञ्जनम् । १३५. ते च द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया-ऽभावाख्याः सप्तैव । १३६. तेजः संयोगोत्पाद्यत्वं नैमित्तिकत्वम् । १३७. तेजस्त्वजातियोगि उष्णस्पर्श तेजः । १३८. तेजोऽपि नित्यमनित्यं च । १३९. दिग् ऐन्द्री, आग्नेयी, याम्या, नैर्ऋनी. वारुणी, वायव्या, कौबेरी, ईशानी, नागी, ब्राह्मी, रौद्री चेत्येकादश । १४०. दुःखं तु शरीरं षडिन्द्रियाणि षड्विषयाः षडबुद्धयः सुखं दुःखं चेत्येकविंशतिप्रकारम् । १४१. दुःखमपि दुःखकारणमात्रप्रभवम् । १४२. दुःखत्वसामान्यवत् निरुपाधि प्रतिकूलवेद्यं दुःखम् । १४३. दुःखसाधनं ज्ञानं हानम् । १४४. दृष्टान्तवचनमुदाहरणम् । १४५. द्रवत्वजातिमदेकवृत्ति स्यन्दनाऽसमवायिकारणं द्रवत्वम् । १४६. द्रवत्वं सांसिद्धिकं नैमित्तिकं च । १४७. द्रव्यं तु कार्यरूपं स्वाऽवयवसमवेतम् । १४८. द्रव्यं द्रव्यत्वसामान्ययोगि । १४९. द्रव्यसमवायिकारणमवयवः । १५०. द्रव्यस्य समवाय्यसमवायिकारण-विनाशाभ्यां विनाशः । १५१. द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवि । १५२. द्वेषत्वजातिमान् प्रज्वलनात्मको द्वेषः । १५३. धर्मः प्रवर्तको निवर्तकश्च । १५४. धर्मत्वसामान्यवान् सुखाऽसाधारणं कारणं धर्मः । १५५. नित्यत्वं प्रध्वंसविरहः । ७६ १५१ २५७ २३९ १५६ २९९ ३०१ १७८ १५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122