Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तपदार्थी
२७३
३१९
३१४
२३३
२६३
१८३
१७१
२२
२८४. सबाधकं सामान्यमुपाधिः । २८५. समवायस्त्वेक एव । २८६. समवायाभावौ तु असमवेतावेव । २८७. समवायिकारणं त्रयाणां द्रव्यमेव । २८८. समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । २८९. समस्तमूर्तद्रव्यसंयोगित्वं विभुत्वम् । २९०. समानाधिकरणं व्यावर्तकं विशेषणम् । २९१. सम्यक्साध्यानधिकरणत्वं विपक्षत्वम् । २९२. सविकल्पकनिर्विल्पकयोस्तु प्रमायामप्रमायां चान्तर्भावः । २९३. सांसिद्धिकत्वं तेजःसंयोगानुत्पाद्यत्वम् । २९४. साक्षात्कारज्ञानकारणमिन्द्रियम् । २९५. सादिरनन्त: प्रध्वंसाभावः । २९६. सादृश्यमुपाधिरूपं सामान्यम् । २९७. साधनाश्रययोरन्यतरत्वे सति प्रत्यक्षप्रमायोगव्यवच्छिन्नं प्रत्यक्षप्रमाणम् । २९८. साधनाश्रययोरन्यतरत्वे सति प्रमायोगव्यवच्छिन्नं प्रमाणम् । २९९. साध्यतदभावसाध्यत्वं सन्दिग्धत्वम् । ३००. साध्याऽसाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः । ३०१. सामान्य जातिरूपमुपाधिरूपं च । ३०२. सामान्यं द्रव्यगुणकर्मसमवेतम् । ३०३. सामान्यं नित्यमेकमनेकसमवेतम् । ३०४. सामान्यं परमपरं परापरं चेति । ३०५. सा शरीरेन्द्रियविषयारूपा । ३०६. सितादीनां सप्तानां सितत्वादिकम् । ३०७. सुखत्वसामान्यवन्निरुपाध्यनुकूलवेद्यं सुखम् । ३०८. सुखं तु सांसारिकं स्वर्गश्च । ३०९. सुखसाधनं ज्ञानमुपादानम् । ३१०. सुरभिरसुरभिश्च । ३११. स्तिमितवायुस्तु परमाणुसमूह एवानारब्धद्रव्य इति ।
२१९
२४५
२४७
२
१५०
२५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 118 119 120 121 122