Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तपदार्थी
१८७
१४४
५२
१२८
१९९
१५४ २६१
१८१. परिमाणमणु-महद्-दीर्घ-हस्वभेदाच्चतुर्विधम् । १८२. पार्थिवजलेन्धनं तेज औदर्यम् । १८३. पार्थिवमानेन्धनं तेजो भौमम् । १८४. पृथक्त्यजातियोगि पृथग्व्यवहाराऽसाधारणं कारणं पृथक्त्वम् । १८५. पृथक्त्वमेकानेकवृत्ति । १८६. पृथिवीत्वसामान्यवती गन्धवती पृथिवी । १८७. पृथिवी नित्याऽनित्या च । १८८. प्रतियोगिज्ञानाधीनज्ञानोऽभावः । १८९. प्रत्यक्षं सप्तप्रकारम् । १९०. प्रत्यात्मसमवेतधर्माधर्मोपगृहीतत्वं प्रत्यात्मनिष्ठत्वम् । १९१. प्रमाऽपि प्रत्यक्षमनुमितिश्च । १९२. प्रमितिविषयाः पदार्थाः । १९३. प्रयत्नत्वसामान्यवान् प्रयत्नव्यवहाराऽसाधारणं कारणं प्रयत्नः । १९४. प्रयत्नोत्पाद्यसाधनाधीनं सुखं सांसारिकम् । १९५. प्रयत्नोऽपि विहितप्रतिषिद्धोदासीनविषयः । १९६. प्रयोगस्तु लक्षणमितरेभ्यो भिद्यते, केवलव्यतिरेकिहेतुविशेष
वचनत्वात् । यदितरेभ्यो न भिद्यते तत्केवलव्यतिरेकिहेतुविशेषवचनमपि न भवति यथा धूमवत्त्वम् । न च तथेदं केवलव्यतिरेकिहेतुविशेषवचनं न भवति । तस्मादितरेभ्यो न भिद्यते इति न, किन्तु
भिद्यत एव । १९७. प्रसारणत्वजातिमजुत्वापादकं कर्म प्रसारणम् । १९८. प्रागभाववत् कार्यम् । १९९. प्रागभावस्य तु प्रतियोग्युत्पादकसामग्रीतः । २००. प्रागभावादयः प्रतियोगिभेदादनन्ता एव । २०१. प्राणश्च शरीराभ्यन्तरचारी । २०२. बुद्धित्वसामान्यवती आत्माश्रयः प्रकाशो बुद्धिः । २०३. बुद्धिरपि स्मृतिरनुभवश्च । २०४. बुद्धीच्छाप्रयत्ना उभयरूपाः । २०५. भावनाऽसाधारणकारणं ज्ञानं स्मृतिः ।
११७
१६५
३०४
१४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 114 115 116 117 118 119 120 121 122