Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तपदार्थी
तच्च किमित्याह
तच्च व्याप्तिपक्षधर्मताविशिष्टं लिज्ञानम् ।।२२३ ।। व्याप्तिः—यत्र यत्र साधनं तत्र तत्र साध्यम्, यत्र साध्यं नास्ति तत्र साधनमपि नास्ति इति लक्षणा, पक्षधर्मता च पक्षे हेतोर्व्याप्यवृत्तित्वम्, ताभ्यां विशिष्टं सहितं यल्लिङ्गस्य हेतोर्ज्ञानं तदनुमानम् । अनुमानमित्युक्ते साकाङ्क्षता, तन्निरासार्थं ज्ञानम् । तथोक्ते पक्षादिज्ञानेऽतिव्याप्तिस्तन्निरासार्थं लिङ्गज्ञानमिति । तथोक्ते 'अनित्यः शब्दः प्रमेयत्वात्' इत्यादावतिव्याप्तिस्तन्निरासार्थं व्याप्तिविशिष्टम् । अत्र तु अनित्यत्वेन प्रमेयत्वस्य व्याप्तिर्नास्ति । तथोक्ते 'नित्यः शब्द: अमूर्तद्रव्यत्वाद्' इत्यादावतिव्याप्तिस्तन्निरासार्थं पक्षधर्मताविशिष्टम्; अत्र तु नित्यत्वेन अमूर्त्तद्रव्यं व्याप्तमस्ति तथापि पक्षे शब्दे नास्ति ।।२२३||
व्याप्तिं लक्षयतिव्याप्तिश्च व्यापकस्य व्याप्याधिकरणोपाध्यभावविशिष्टः सम्बन्धः ।।२२४ ।।
व्यापकस्य साध्यस्य व्याप्याधिकरणः साधनाधिकरणः उपाध्यभावविशिष्टो निरुपाधिको यः सम्बन्धः स व्याप्तिः । सम्बन्धो व्याप्तिरित्युक्ते संयोगेऽतिव्याप्तिस्तन्निरासार्थं व्याप्याधिकरण इति । सम्बन्धस्य द्वयनिष्ठत्वात् कस्य सम्बन्धस्य इति साकाङ्क्षता तन्निरासार्थं व्यापकस्येति । तथोक्ते वैधी हिंसा अधर्मसाधनं हिंसात्वात् ब्राह्मणहिंसावत् इत्यादि सोपाधिकायां व्याप्तावतिव्याप्तिस्तन्निरासार्थम् 'उपाध्यभावविशिष्टम्' इति ।।२२४ ।। पक्षधर्मतां लक्षयति
पक्षधर्माता च' व्याप्यस्य पक्षसम्बन्धः ।।२२५।। व्याप्यस्य हेतो र्यः पक्षेण सह सम्बन्धः पक्षे व्याप्यवृत्तित्वं सा पक्षधर्माता ।।२२५।। व्यापकव्याप्ये लक्षयति
व्यापकं साध्यम् । व्याप्यं साधनम् ।।२२६ ।। अधिकवृत्तित्वात् साध्यं व्यापकं भवति । न्यूनवृत्तित्वात् लिङ्गं हेतुर्व्याप्यं भवतीति ।।२२६।।
उपाधिं लक्षयति
१. 'विशिष्ट क. नि. ।' २. व्याप्याधिकरणः उपाध्यभावविशिष्टः क. नि. । ३. 'इति' अ. १. पुस्तके नास्ति। ४. तु क. नि. । ५. लिङ्गम् क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122